SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः भेदकस्तथा निरात्मकघटाद्यारम्भकभूतेभ्यः शरीरारम्भकभूतस्य साऽऽत्मकत्वेन विशेषादित्यात्मा भेदकः सिध्यतीत्यर्थः । न च शरीरे सात्मकत्ववत् हिताहितप्राप्तिपरिहारफलकक्रियादिमत्त्व-सुख-दुःख राग-द्वेष-ज्ञानयत्नादिमत्त्वादिकमपीति तदात्मकधर्माणामेव सात्मकत्वसमनियतानां घटादितः शरीरस्य भेदकत्वमिति नात आत्मसिद्धिरिति वाच्यम् , चेष्टाया भेदकत्वं सुखस्य दुःखस्य रागादेर्वा भेदकत्वमित्यत्र विनिगमकस्य कस्यचिदभावाद् विनिगमनाविरहात् सर्वेषां भेदकत्वे गौरवाल्लाघवादेकस्यैव सात्मकत्वस्य भेदकत्वकल्पनाया उचितत्वात् ; न च सात्मकत्वस्य भेदकत्वं चेष्टादिमत्त्वस्य वा भेदकत्वमित्यत्रापि विनिगमनाविरह इति वाच्यम् , हिताहितप्राप्तिपरिहारफलेन चेष्टायाः, सातासातवेदनलक्षणोपभोगविषयत्वेन सुख-दुःखयोः, काम-क्रोधादिरूपानुभवविषयत्वेन राग द्वेषयोः, स्वसंवेदनानुभवविषयत्वेन ज्ञानस्य, यते करोमीत्यादिप्रत्यक्षविषयत्वेन यत्नस्य च प्रसिद्धत्वेन प्रसिद्धानां तेषां मध्यादेकस्य घटादितः शरीरस्य भेदे निमित्तत्वे तदन्येषामपि विनि मनाविरहात् तत्र निमित्तत्वप्रसङ्गात् , सात्मकत्वस्य त्वन्यप्रमाणतोऽसिद्धस्य निरुक्तभेदनिमित्ततयैव कल्पनीयस्यान्यभेदकभावे सद्भावमेव प्राप्तमयोगस्यान्येन समं विनिगमनाविरहासम्भवात् , न हि भवति शशशृङ्गादेः केनापि समं विनिगमनाविरहः, क्लप्तस्य हि क्लुप्तेनान्येन समं विनिगमनाविरहो नाक्लुप्तेनेति; न च भवतु सात्मकत्वं शरीरस्य घटादितो भेदकम् , चैतन्यं प्रत्युपादानत्वं तु सात्मकत्वविशिष्टशरीरत्वेन शरीरस्यैवेति शरीरस्यैवोपादानस्य धर्म उपादेयभूतं चैतन्यमिति वाच्यम् , स्वसंवेदनानुभूयमानं चैतन्यं कार्य कादाचित्कत्वाद् घटादिवत् , चैतन्यं सोपादानकं कार्यत्वाद् घटादिवत् , चैतन्यं नाचेतनोपादानकमचेतनविजातीयत्वात् , यथा तेजो न जलोपादानकम् , चैतन्य चेतनात्मापादानकम् , अचेतनानुपादानकत्वे सति सोपादानकत्वात् , यन्नैवं तन्नैवं यथा घटादि, इत्येवमात्मरूपधर्मिग्राहकप्रमाणेन सात्मकत्वविशिष्टशरीरे विशेषणीभूतस्याऽऽत्मन एव चैतन्योपादानतया सिद्धेः, चैतन्यं प्रत्यात्मत्वेनैवात्मनो लाघवादुपादानत्वं न तु सात्मकत्वविशिष्टशरीरत्वेन शरीरस्य गौरवादिति निष्कर्षः, तथा च न विशेषणकृतोऽपि भूतसंघातविशेष इति हृदयम् । अपि च शरीरलक्षणः परिणामो येषां भूतानां तेषां घटादिलक्षणपरिणामशालिभ्यो भूतेभ्यो वैचित्र्ये सत्येव शरीरस्य घटादितो विशेषः सम्भवति, नान्यथा, तेषां वैचित्र्यं चात्मोपग्रहमन्तरेण न सम्भवति, आत्मोपग्रहश्चात्मसहकारित्वम् , तच्च न
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy