SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [प्रथमः भावः” इति । भूतातिरिक्तस्य भेदकस्याभावादेव भूतान्तरनिष्ठकार्यजनकातिशयान्यातिशयशालिवलक्षणवैधर्म्यरूपो भेदोऽपि न सम्भवति, भूतान्तरनिष्ठकार्यजनकातिशयान्यातिशयस्य भूतातिरिक्तत्वे भूतव्यतिरिक्ततत्त्वान्तरस्वीकाराद् भूतमात्रतत्त्ववादित्वं तथाऽभ्युपगन्तुश्चार्वाकवराकस्य व्याहन्येत, निरुक्तातिशयस्य भूतानतिरिक्तत्वे च घटाद्यारम्भकभूतस्वभावस्य भूतत्वेन यथाऽविशिष्टत्वं तथोतातिशयेनापि भूतानतिरिक्तेनाविशिष्टत्वमेवेति स्वभावभेदो न भवेत् , तथा च घटाद्यारम्भकभूतानां संहन्यमानानामविशेषाच्छरीरारम्भकभूतसंघातस्वरूपे शरीरे इव घटाद्यारम्भकभूतसंघातस्वरूपे घटादावपि व्यक्तचैतन्यसद्भावतो घटादेः पुरुषाद् विशेषो न भवेदित्यर्थः ॥ ५४ ॥ घटाद्यारम्भकभूतानां शरीरारम्भकभूतानां चान्योऽन्यं स्वरूपत एव भेद इति स्वरूपमात्रभेदपक्षमाश्रित्याह स्वरूपमात्रभेदे च, भेदो भूतेतरात्मकः। .. अन्यभेदकभावे तु, स एवात्मा प्रसज्यते ॥ ५५ ॥ खरूपमात्रभेदे चेति-घटस्य स्वरूपं पटस्य स्वरूपं शरीरस्य स्वरूपमित्यादिप्रतीतौ भासमानं यत् स्वरूपं तदेव घटस्य पटस्येत्यादिसम्बन्धिविशेषानव. च्छिन्नं सत् स्वरूपमात्रमित्युच्यते, तद्रूपभेदेऽविशिष्टस्वभावावच्छिन्नेऽभ्युपगम्यमाने सतीत्यर्थः। भेदः इदमिदं नेति इदं भूतं नेति प्रतीतिप्रमाणको भेदपदार्थः । भतेतरात्मकः भूतमितरयति-स्वस्मात् पृथक्करोति यः स भूतेतरः, भूतेतर आत्मा स्वरूपं यस्य स भूतरात्मकः, एवम्भूतः स्यात् , अर्थात् स्वरूपमात्रलक्षणो घटाद्यारम्भक शरीरारम्भकभूतानां स्वभावभेदो नेदं भूतमिति प्रतीतिप्रमितो भूतभिन्नः स्यात् , तथा च भूतभिन्नः स न पृथिव्यादिभूतचतुष्टयेऽन्तर्भवतीत्यास्मैव स इत्याशयः । यदि च स्वरूपमात्रलक्षणभेदाभ्युपगमे तस्योक्तदिशा भूतातिरिक्तात्मस्वरूपत्वापत्तिभिया घटाद्यारम्भक-शरीराम्भकभूतानां स्वभावस्य भेदकमन्यदेवाभ्युपगम्यते तदा त्वाह-अन्यभेदकभावे स्विति-भूतातिरिक्तस्य निरुक्तस्वभावभेदकस्य सत्त्वे त्वित्यर्थः । स एव घटाद्यारम्भकभूताच्छरीरारम्भक. भूतस्य भेदकत्वेनाभिमत एव, आत्मा भूतातिरिक्तश्चेतनः, प्रसज्यते प्रसक्तः स्यात् , यथा समानशुक्लपटेष्वेकस्य रक्तिमपदार्थरञ्जनं रक्तिमपदार्थसंसर्ग एव
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy