________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
अथ भिन्नस्वभावानि, भूतान्येव यतस्ततः ।
तत्संघातेषु चैतन्यं, न सर्वेष्वेतदप्यसत् ॥ ५३॥ अथेति । शङ्कार्थकोऽयमथशब्दः। यतः यस्मात् कारणात् । भूतान्येव शरीरारम्भकाणि भूतान्येव, भिन्नस्वभावानि प्रकृत्यैव घटाद्यारम्भकस्वभावविलक्षणस्वभावानि, ततः तस्मात् कारणात् , तत्संघातेषु घटाद्यारम्भकस्वभावविलक्षणस्वभावभूतसङ्घातस्वरूपशरीरेषु, चैतन्यं विद्यते, न सर्वेषु घटाद्यारम्भकस्वभावभूतसङ्घातस्वरूपेषु घटादिषु न चैतन्यं समस्तीति, तथा च संहन्यमानभूतवैलक्षण्यकृतः सङ्घातविशेषो न तु भूतसामान्यकृतो येन घटादयोऽपि सङ्घातविशेषाः स्युरिति । उक्ताशङ्का प्रतिक्षिपति-एतदपीति-परस्यैतत् स्वाशयप्रकटनमपीत्यर्थः, असत् अशोभनम् ॥ ५३ ॥ कस्मादशोभनमित्यपेक्षायां तत्र हेतुमुपदर्शयति
स्वभावो भूतमात्रत्वे, सति न्यायान्न भिद्यते ।
विशेषणं विना यस्मान्न तुल्यानां विशिष्टता ॥ ५४ ॥ स्वभाव इति । भूतमात्रतत्त्ववादिनस्तव मते भूतमात्रत्वे सति शरीरारम्भ काणां भूतानां स्वभावो घटाद्यारम्भकभूतस्वभावाद् भिन्नस्तदा भवेद् यदि विरुद्धधर्मो घटाद्यारम्भकभूतस्वभावावृत्तिधर्मः शरीरारम्भकभूतस्वभाववृत्तिर्भेदकः स्यात् , प्रकृते भूतातिरिक्तस्य तथाविधस्य भेदकस्याभावे सति, न्यायाद् युक्तितः, 'अयमेव भेदो भेदहेतुर्वा, यदुत-'विरुद्धधर्माध्यासः' इत्यादिवचनाद् विरुद्धधर्माध्यासस्यैव भेदकत्वं नान्यस्येति युक्तित इति यावत् , स्वभावः शरीरारम्भकभूतस्वभावः, न भिद्यते घटाघारम्भकभूतस्वभावाद् भिन्नो न भवति । भेदकमन्तरेणैव कुतो न स्वभावस्य भिन्नतेत्यत आह-विशेषणं विनेति । यस्मात् यस्मात् कारणात् , तुल्यानां समानानाम् , यथा समशुक्ल. पटादीनां प्रकृते भूतत्वेन समानानां घटशरीराद्यारम्भकभूतानाम् , विशेषणं विना व्यावर्तकविरुद्धधर्ममन्तरेण, विशिष्टता विभिन्नता, न नैव भवति, अत्रैव भावमावेदयन्ति यशोविजयोपाध्यायाः-"भूतस्य भूतान्तरभेदो हि न वास्तवः, किन्तु विभिन्नधर्मप्रकारकबुद्धिविषयत्वलक्षणो भाक्त एव, विशेषणावच्छिन्नविशेष्यभेदात्मको वा, न च विभिन्मधर्म बिना तद्वटिततत्संभव इति
mmm