SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [प्रथमः इति पाठ उपाध्यायव्याख्योपेतमूले मुद्रिते, व्याख्यायां तत्र “घटादीनां पुरुषात्जीवच्छरीरात् , न विशेषः स्यात्" इति पाठः, टीकास्वारस्यात् “पुरुषान्न विशेषः स्यात्" इति पाठ एव मूले भवितुमर्हति, हरिभद्रसूरिव्याख्योपेतमूले मुद्रिते तु "पुरुषान्न विशेषः स्यात्" इत्येव पाठो मुद्रितोऽस्ति किन्तु टीकायां "पुरुषाद्यविशेषः स्यात्" इति पाठो मुद्रितोऽस्ति, तत्र मुद्रितमूलपाठस्य युक्तत्वेन टीकायामपि "पुरुषान्न विशेषः स्यात्" इति पाठ एव भवितुमर्हति, यदि च हरिभद्रसूरिभिः "तद्भावपङ्गतेः” इत्यस्य "चैतन्यभावप्रसङ्गाद्” इत्येव व्याख्यानमादृतं न तु व्यक्तचैतन्यभावप्रसङ्गादिति, “सर्वत्र" इत्यस्य व्याख्यानं न कृतं किन्तु विशेष्यपदं “भूतसङ्घाते" इति तत्र योजितम् , तथा च एवं सति' इत्यस्योक्तार्थपरामर्शकत्वेऽपि सर्वत्र भूतमङ्घाते चैतन्याभावप्रसङ्गे सतीत्येवार्थो न तु घटादीनां व्यक्तचैतन्याभावादित्यर्थ इति न पौनरुक्त्यम् , यो यो भूतसङ्घातः स चैतन्यवानित्यवगतौ यथा प्रत्येकमणुष्वव्यक्तं महत्त्वमणुसङ्घातस्वरूपं सद् व्यक्तं भवति तथा प्रत्येकं भूतेष्वव्यक्तं चैतन्यं भूतसङ्घाते व्यक्तं स्यादिति दृष्टान्तदा न्तिकभावबलाद् भूतसङ्घाते चैतन्यस्येष्टौ तच्चैतन्यं व्यक्तमेव भवेदित्येवं घटादीनां भूतसङ्घातत्वेन हेतुना सिद्धाद् व्यक्तचैतन्यभावतः कारणादित्यर्थोऽपुनरुक्त एव, "पुरुषाद्यविशेषः स्यात्" पुरुषपदं जीवच्छरीरपरम् , आदिपदाद् घटादीनामुपग्रहः, तथा च जीवच्छरीरघटादीनां सर्वेषां व्यक्तचैतन्यसद्भावाद् विशेषो न स्यादित्यर्थ इति विभाव्यते तदा श्रीहरिभद्रसूरिव्याख्यास्वारस्यात् “पुरुषाद्यविशेषः स्यात्" इत्यापि पाठः कथञ्चित् सङ्गतिमङ्गतीति बोध्यम् । ननु भवतु घटादीनां पुरुषात्जीवच्छरीराद् विशेषाभावः, इष्टापादनमेवैतदित्यत आह-स चेति-स च-घटा. दीनां पुरुषादविशेषश्च । प्रत्यक्षबाधितः घटादीनामचेतनत्वेनैव प्रत्यक्षं भवतीति तेन प्रत्यक्षेण चैतन्यसद्भावलक्षणोऽविशेषो बाधितः, प्रत्यक्षबाधाद् व्यक्तचैतन्यसद्भावो घटादीनां पुरुषादविशेषश्चार्वाकस्यापि नेष्ट इत्याशयः ॥ ५२ ॥ ननु सर्वस्याणुसङ्घातस्य न स्थूलत्वरूपता, तथा सति द्वयणुकस्याप्यणुद्वयरूपसङ्घातात्मकत्वेन स्थूलत्वरूपताऽऽपद्येत, किन्तु व्यणुकाद्यात्मकाणुसङ्घातविशेषस्यैव स्थूलत्वरूपत्वम् , तथा घटादिव्यावृत्तभूतसङ्घातविशेष एव चैतन्यं न भूतसङ्घातमात्रमिति न घटादीनां पुरुषादविशेष इत्येवं स्वाकृतं पर आशङ्कते
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy