SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ८९ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः मुत्पद्यते तथा चैतन्यमपि भूतेषु प्रत्येकावस्थायां सदेव समुदितावस्थायामुत्पद्यताम्?, तावताऽपि भूतचैतन्यवादिनां चार्वाकाणामिष्टमेव स्यादित्यत आह न चैवं भूतसंघातमात्रं चैतन्यमिष्यते । अविशेषेण सर्वत्र, तद्वत् तद्भावसंगतेः॥५१॥ न चैवमिति । एवं यथाऽणुसंघातमात्रं स्थूलत्वमण्वभिन्नं तथा, भूतसंघातमात्रं भूतसंघातस्वरूपमेव, मात्रपदेन भूतसङ्घातातिरिक्तत्वव्यवच्छेदः, चैतन्यम् आत्मगुणत्वेन नैयायिकाद्यभिमतं ज्ञानम् , न च नैव, इष्यते चार्वाकैरभ्युपगम्यते । ननु भूतसङ्घातस्वरूपमेव चैतन्यं चार्वाकाभ्युपगतमस्तु किं ततस्तेषां क्षुण्णं स्यादिति तटस्थाशङ्कायामाह-अविशेषेणेति-जीवच्छरीरमपि भूतसङ्घातस्वरूपं घटादिकमपि भूतसङ्घातस्वरूपम्, शरीरात्मकभूतसङ्घाते घटाद्यात्मकभूतसङ्घातात् कस्यचिद् विशेषस्यानभ्युपगमेन । सर्वत्र जीवच्छरीरे तद्भिन्न च भूतसङ्घाते। तद्वत् भूतसङ्घातवत् तद्भावसङ्गतेः व्यक्तचैतन्यसद्भाव. प्रसङ्गात् , व्यक्तेति विशेषणाच्छरीरव्यतिरिक्तेऽपि भूतसङ्घाते प्रत्येकभूतेष्विवाव्यक्तचैतन्यस्य चार्वाकैरप्युपगन्तुं शक्यत्वेऽपीष्टापत्ते वकाशः ॥ ५१ ॥ __ भवतु जीवच्छरीरादन्यस्मिन्नपि भूतसङ्घाते व्यक्तचैतन्यं तावता किमनिष्टं चार्वाकस्येत्यत आह एवं सति घटादीनां, व्यक्तचैतन्यभावतः। , पुरुषान्न विशेषः स्यात् , स च प्रत्यक्षबाधितः॥५२॥ एवमिति । एवम् उक्तप्रकारेण । सतीति 'व्यक्तचैतन्यभावतः' इत्यनन्तरं योजनीयम् . तस्प्रत्ययस्य च सप्तम्यर्थत्वं “सार्वविभक्तिकस्तसिः" इति शाब्दिकवचनप्रामाण्यादुररीकृत्य ‘एवं व्यक्तचैतन्यभावे सति' इति योजितवन्तः श्रीमन्तो यशोविजयोपाध्यायाः, तथा योजने च ‘एवं सति' इत्येवं यथाश्रुतसमभिव्याहारे पूर्वपद्यस्थेन 'सर्वत्र तद्भावसङ्गतिः' इत्यनेनोक्तस्य घटादौ व्यक्तचैतन्यसद्भावप्रसङ्गस्य ‘एवं सति' इत्यनेन परामर्श तु सर्वत्रेत्येतद्धटकसर्वपदस्य घटादिरेवार्थ इति य एव ‘एवं सति' इत्यस्यार्थः स एव 'घटादीनां व्यक्तचैतन्यभावतः' इत्यस्थापीत्यर्थतः पौनरुक्त्यं स्यादिति युक्तिं चाभिहितवन्तः । “पुरुषाद्यविशेषः स्यात्"
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy