________________
शास्त्रवार्ता समुच्चयः ।
[ प्रथमः
शरीरमित्यपि प्रतीतिश्चरणे न चलति शरीरमिति प्रतीतिवत् स्यात् ; ननु शरीरे कर्माभावो व्याप्यवृत्तिरेव तस्य यथा न शरीरत्वादिकमवच्छेदकं तथा पाणिरपि नावच्छेदक इति शरीरवृत्तिकर्माभावस्य पाण्यनवच्छिन्नत्वादेव तस्य पाण्यवच्छिन्नत्वावगाहिन्याः 'पाणौ न चलति शरीरम्' इति प्रतीतेरप्रसङ्ग इति चेत् ? न - यदा चरणे कम्पः, पाणौ न कम्पः, तदानीं पाणौ न चलति शरीरमिति प्रतीतेरनुभूयमानाया अप्यपलापापत्तेः; न च यदा पाणौ कर्म तदाऽपि शरीरे नास्त्येव कर्म, तथापि पाणौ न चलति शरीरमिति यन्न प्रतीयते तत्र दोष एव निबन्धनमिति वाच्यम् तादृशदोषकल्पने गौरवात् ; किञ्च, यथाऽवयवगतकर्मैव परम्परयाऽवयविवृत्ति, परम्परासम्बन्धेन कर्मवत्त्वमेवावगाहते शरीरे कर्मप्रतीति-रित्यaraat निष्कर्मत्वमेव, तथा वृक्षादावपि कपिसंयोगादिकं साक्षात्सम्बन्धेन नास्त्येव किन्त्वग्रादिनिष्ठ कपिसंयोगादेरेव स्वाश्रयसमवेतत्वरूप परम्परासम्बन्धेनाश्रयत्वमवगाहते वृक्षेऽग्रे कपिसंयोग इति प्रतीतिः, तथा च संयोगादेरपि कर्मवद् व्याप्यवृत्तित्वमेव स्यात्, अपि चावयविनो व्यतिरिक्तत्वेऽवयविपद्भावकालेऽवयवानामपि सद्भावोऽवयव गुरुत्वेभ्यश्चातिरिक्तावयविनि गुरुत्वमप्यतिरिक्तमुपजायत इत्यवय वनोऽनारम्भदशायां शतमाषकावयव गुरुत्वकार्य तुलाऽवनतितोऽधिकतरावनतिविशेषः शतमाषकारब्धावयविनि गुरुत्वाधिक्यात् स्यात्, तदानी नवयवगुरुत्वानामवयविगुरुत्वस्य च सत्त्वात् ननु समयोर्गुरुतरद्रव्ययोरुत्तोलने एकत्रापकृष्टगुरुत्ववत्संलग्नतृणादिगुरुत्वाधिक्येऽपि नावनतिविशेषो यथा, तथैवाaraगुरुत्वाधिक्येऽपि नावनतिविशेषः, अवयविनो गुरुत्वस्यात्यन्तापकृष्टत्वादिति वाच्यम्, गुणान्तरेऽवयवगुणादवयविनि सजातीयं गुणान्तरमुत्पद्यमानमुत्कृष्टमेव दृश्यते, गुरुत्वगुणे तु अवयवगुरुत्वेभ्योऽवयविन्यपकृष्टमेव गुरुत्वमुपजायत इति कल्पनाया अत्यन्तापकृष्टगुरुत्वं प्रति तादात्म्येन तत्तदन्त्यावयवित्वेन कारणत्वस्वीकारे सत्येव सम्भवदुक्तिकत्वेन, अवयवगुणानां सजातीयोत्कृष्टगुणजनन स्वभावत्वस्यान्यत्रावष्टतत्वेन तद्वलादुत्कृष्टगुरुत्वं कस्मान्न भवतीत्याकाङ्क्षानिवृत्तये उत्कृष्टगुरुत्वं प्रति तत्तदन्त्यावयविन: प्रतिबन्धकत्वस्य तदभावस्य कारणत्वस्य च कल्पनीयत्वेनातिगौरवापत्तेः, तस्मात् परमाणुषु सदेव कथञ्चित् परमाण्वभिन्नमेव च महत्त्वमुपजायते, इत्युपचयेन सिद्धम् ॥ ५० ॥
ननु यथाऽणुषु द्रव्यरूपेण प्रत्येकावस्थायां सदेव स्थूलत्वं समुदितावस्थाया
८८
"