________________
८७
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः तद्देशनियमहेतोरभावात् सर्वदेशत्वमेव विनिगमकाभावादापतेदित्याह-सर्वत्र वेति, भवेत् स्यात् , तदिति योजनीम् । ननु महत्त्वस्यादलत्वे सर्वमिदमुच्यमानं शोभेत, तदेव नास्ति, त्र्यणुकादेरेव महत्त्वोत्पादनत्वेन तदुपादानकत्वरूपतद्दल. स्वस्य महत्त्वे सद्भावात् , उपादानभिन्नदलवत्त्वाभावलक्षणमदलत्वं च देशकालनियमाभावेऽप्रयोजकमेवेति तादृशादलत्वतो महत्त्वस्य न देशकालनियमाभावप्रसक्तिः, अत्र च सामान्यत उपादानोपादेयभाव इत्थम्-समवायसम्बन्धेन जन्यसत्त्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यत्वेन द्रव्यं कारणम् , सत्त्वस्य नित्यद्रव्य-नित्यगुणयोरपि सत्त्वात् कार्यत्वस्य तत्राभावेनातिप्रसक्तत्वादन्यूनानतिप्रसक्तधर्मस्यावच्छेदकत्वमतस्तस्य जन्यतावच्छेदकत्वासम्भवेन जन्यत्वस्य कार्यतावच्छेदककोटौ निवेशः, जन्यत्वं ध्वंसेऽपि वर्तते, ध्वंसश्च समवायसम्बन्धेन नोत्प द्यते किन्तु स्वरूपसम्बन्धेनैवेति जन्यत्वमात्रावच्छिन्नकार्यता न समवायसम्बन्धा. वच्छिन्नेत्यतः सत्त्वस्यापि कार्यतावच्छेदककोटौ निवेशः, उक्तकार्यकारणभावमूलकः समवायेन जन्यसन्मानं द्रव्य एवोत्पद्यत इति नियमः, तादात्म्येन द्रव्यं च द्रव्य एव वर्तते न तु गुणादावतो महत्त्वस्य न गुणादावुत्पत्तिप्रसङ्गलक्षणाऽतिप्रसङ्ग इति चेत् ? न-समवायसम्बन्धस्य निरासेन तस्य जन्यसत्त्वावच्छिन्नकार्यतावच्छेदकत्वासम्भवात् , जन्यसत्त्वापेक्षया लघुभूतस्य जन्यत्वस्यैव ध्वंससाधारणस्य तादात्म्यसम्बन्धावच्छिन्नद्रव्यत्वावच्छिन्नकारणतानिरूपितकार्यतावच्छेदकत्वौचि. त्यात् , द्रव्यगतगुणादिध्वंसोऽपि कथञ्चिद्रव्याभिन्न एवेत्यपृथग्भावलक्षणं तादात्म्यमेवात्र निरुक्तकार्यतावच्छेदकसम्बन्ध इति अपृथग्भावेन महत्त्वं द्रव्ये समुत्पद्यत इति तस्य परमाणुद्रव्याभिन्नत्वमेव युज्यते; अनन्तावयव्यादिकल्पने *गौरवादतिरिक्तावयविनि मानाभावश्च, आवृतत्वा-ऽनावृतत्वाभ्यां भेदादेकोऽवयवी न संभवतीत्यपि युक्तमेव, ज्ञानप्रतिबन्धकमंयोग आवृतत्वम् , ज्ञानप्रतिबन्धकसंयोगाभावोऽनावृतत्वम् , संयोग-तदभावयोश्चाव्याप्यवृत्तित्वं सर्वानुमतमिति तदात्मकयोरावृतत्वा-ऽनावृतत्वयोर्भिन्नावच्छेदेनैकत्र संभवेऽपि चाक्षुषविषयत्वमनावृतत्वं तदभावश्चावृतत्वम् , विषयता च विषयस्वरूपैवेति न तस्या अव्याप्यवृत्तित्वमिति तद्रूपयोरावृतत्वा-ऽनावृतत्वयोर्न भिन्नावच्छेदेनैकत्र संभव इति तदुभयाध्यासादवयविनो भेदेनैकत्वसंभवः, 'पाणौ शरीरं सकम्पं निष्कम्पं च चरणे' इति प्रतीतिबलात् सकम्पत्व-निष्कम्पत्वरूपविरुद्धधर्माध्यासाच्छरीररूपावयविनो भेदाच नैकत्वसंभवः, शरीरे निष्कम्पत्वस्यैवोपगमे पाणौ न चलति