________________
८६
शास्त्रवार्तासमुच्चयः।
[प्रथमः त्वादिरूपपरम्परासम्बन्धेन पाणि-तदवयवादौ प्रतीतिरस्तु, साक्षात्सम्बन्धेन नानावयवे कर्म कल्पनायां गौरवादित्यपास्तम् , पाण्यादौ साक्षात्सम्बन्धेन कर्मणोऽनभ्युपगमे साक्षात्सम्बन्धावच्छिन्नकर्मनिष्ठप्रतियोगिताकाभावस्य परम्परासम्बन्धेनोपलभ्यमानकर्माविरुद्धस्य पाण्यादौ सत्त्वेन तदुपलम्भापत्तेः; न च कर्मणः परम्परासम्बन्धोऽपि कर्माभावोपलम्भे दोषविधया प्रतिबन्धक इति तत एव न साक्षात्सम्बन्धावच्छिन्नकर्मनिष्ठप्रतियोगिताकाभावस्योपलम्भ इति वाच्यम् 'पाणौ शरीरं सकम्पं निष्कम्पं च चरणे' इत्येवं चरणे निरुक्तकर्माभावप्रतीत्यभावापत्तेः, शरीरगतकर्मणः परम्परासम्बन्धस्य निरुक्तकर्माभावप्रतीतिप्रतिबन्धकस्य चरणे सत्त्वात् , उक्तसम्बन्धस्य दोषत्वकल्पने गौरवाच्च, तस्मादा-- वृतत्वानावृतत्व सकम्पत्वनिष्कम्पत्वादीनामप्यवच्छेदकभेदेनैकत्रावयविनि सत्त्वे विरोधाभावादवयविनो भेदापत्यसम्भवे विलक्षणसंस्थानावच्छेदेन चक्षुस्सन्निकर्षजन्यप्रत्यक्षविषयघटत्वादिमद्वयक्तरुत्पादविनाशभेदादिप्रत्ययान्यथानुपपत्त्या पृथक्तया सिद्धेऽवयविन्येव कारणबहुत्व-कारणमहत्त्व प्रचयान्यतमप्रभवं महत्त्वं न परमाण्वभिन्नमित्याशङ्कायामाह
भेदे तददलं यस्मात् , कथं सद्भावमश्रुते ।
तदभावेऽपि तद्भावे, सदा सर्वत्र वा भवेत् ॥ ५० ॥ भेद इति । भेदे स्थूलत्वस्य महत्त्वापरपर्यायस्य परमाणुभ्य एकान्तेन भेदे, अदलं सत् अनुपादानं सत् , तत् स्थूलत्वम् , यस्मात् , कथं केन प्रकारेण, सद्भावं सत्ताव्यवहारं स्थूलत्वं सदित्यादिप्रतीतिव्यपदेशलक्षणम् , अश्नुते प्राप्नुयात् ? यद् द्रव्यादेकान्तेन भिन्नं तदसत् , यथा शशशृङ्गादि, द्रव्यादेकान्तेन भिन्नं च स्थूलत्वमतस्तदसदेव भवेत् , तदभावेऽपि दलाभावेऽपि, उपादानाभावेऽपीति यावत् , तद्भावे स्थूलत्वोत्पादे, अभ्युपगम्यमाने इति च दृश्यम् , सदा सर्वदा, यदोपादानादिसकलकारणसमवधानं तदोपादेयस्योत्पाद इत्येवमुपादेयस्य कादाचित्कत्वमुपादानादिकारणसमवधानकादाचित्कत्वनिबन्धनं महत्त्वस्य चानुपादानस्य न तत्कादाचित्कत्वनिबन्धं समस्तीति प्रतिनियतकालवृत्तित्वे नियामकाभावात् सर्वकालवृत्तित्वमेव तस्य स्यादित्यर्थः । यद्देशे उपादानादिकारणसमवधानं तद्देशे उपादेयोत्पाद इति नियमलभ्यश्वोपादेयस्य देशनियमः, निरुपादानस्य तु महत्त्वस्योपादानादिकारणसमवधानाश्रयदेशत्वरूप