SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ स्याद्वादवाटिकाटीका सङ्कलितः wwww पुत्रैरेवावयविकार्योपपत्तेरवयविनि मानाभावः, विलक्षणसंस्थानावच्छेदेन चक्षुस्सन्निकर्षाद् यद्द्रव्यगत घटत्वादिग्रहस्तत्तद्वटादिद्रव्यव्यक्तेरुत्पादविनाशभेदादिप्रत्यया जायन्ते, न च तेऽतिरिक्तावयविनमन्तरेण सम्भवन्तीति तदन्यथानुपपत्तिलक्षणप्रमाणादतिरिक्तावयविसिद्धेः ; न चावृतत्वा-ऽनावृतत्वरूपविरुद्ध धर्माध्यासादवयविनो भेदापत्तावेकोऽवयवी न संभवतीति वाच्यम्, “विरुद्धधर्माध्यासः कारणभेदश्च भेदहेतुः, स चेन्न भेदको विश्वमेकं स्यात्” इति बौद्धचचनाद् विरुद्धधर्माध्यासस्य भेदसाधकत्वेऽपि आवृतत्वानावृतत्वयोरवच्छेदकभेदेनैकत्र वर्तमानयोरविरुद्धत्वेन तद्वत्त्वाद् भेदापत्यभावात् न चावृतत्वा-नावृतत्वयोरवच्छेदकभेदेनैकत्रावयविनि सत्त्वेऽर्घावृतोऽप्यवयवी यद्भागावच्छेदेनानावृतस्तद्भागावच्छेदेनेन्द्रियसन्निकर्षसत्त्वे परिमाणादिग्रहः स्यात्, इष्टत्वात्, अर्धावृतावयविनि परिमाणं गृह्यत एव तद्गतहस्तत्वादिकं परिमाणत्वावान्तरसामान्यं तु न गृह्यते, हस्तत्वाद्यवान्तरसामान्यप्रत्यक्षे यावदवयावच्छेदेन द्रव्येन्द्रियसन्निकर्षस्य हेतुत्वात्, अर्धवृतावयविनि यावदवयवावच्छेदेनेन्द्रियसन्निकर्षाभावात् ; न च सकम्पत्व-निष्कम्पत्वरूप विरुद्धधर्माध्यासाद् भेद एवावयविन इति नैकोऽवयवी सम्भवति, पाणौ शरीरं सकम्पं, निष्कम्पं च चरणे' इति प्रतीतिश्च तत्र विरुद्धधर्माध्यासमवगाहत इति वाच्यम्, तत्र पाणावेद कम्पस्वीकारात् पाणिगतकम्पस्यैव स्वाश्रयसमवेतत्वरूप परम्परासम्बन्धेन शरीरे वृत्तित्वावगाहितया 'पाणी शरीरं चलति' इति प्रत्ययोपपत्तेः; न च कम्पस्य साक्षात्सम्बन्धमुपादायैव शरीरे पाणी शरीरं सकम्पमिति प्रतीतिः, निष्कम्पं चरणे शरीरमिति तु चरणनिष्टकम्पाभावस्य स्वाश्रयसमवायित्वसम्बन्धलक्षणपरम्परासम्बन्धं शरीरऽवगाहत इति वाच्यम्, पाणिगतकर्मणैव परम्परासम्बन्धेन शरीरसम्बन्धिना पाणौ शरीरं सकम्पं पाणौ शरीरं चलतीत्यादिप्रतीतेरुपपत्तौ साक्षात्सम्बन्धेन शरीरवर्तिनोऽवयवकर्मातिरिक्तकर्मणः कल्पने गौरवात् ; न च यथा पाणिगतकर्मैव परम्परासम्बन्धेन शरीरे प्रतीयते, न तु शरीरगतं कर्म, तथा पाणादावपि साक्षात्सम्बन्धेन कर्म मास्तु, त्रुटिगतमेव साक्षात्सम्बन्धेन कर्म परम्परासम्बन्धेन पाणादावपि प्रतीयत इत्येवं कल्पने महलाघवमिति वाच्यम्, सर्वावयवावच्छेदेनोपलभ्यमानकर्मवत्यपि शरीरादौ साक्षात्सम्बन्धावच्छिन्नकर्मनिष्ठप्रतियोगिताकाभावस्य सत्तया तदुपलम्भापत्तेः; एतेनान्त्या - वयव शरीरादावेवास्तु साक्षात्सम्बन्धेन कर्म, तस्यैव स्वाश्रयवत्त्वतदाश्रय , स्तबक: :] ८५
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy