________________
शास्त्रवार्तासमुच्चयः।
[प्रथमः रोधेनोपगमादिति चेत् ? न-प्रायोगिक वैनसिकभेदेन विनाशस्य द्वैविध्यात् , तत्राद्यस्य पुरुषप्रयत्नजनितस्य समुदयजनितत्वेनैकविध्यमेव, द्वितीयस्य तु स्वाभाविकस्य समुदयजनितत्वैकत्विकत्वाभ्यां द्वैविध्यम् , तत्रैकत्विकत्वं धर्मास्तिकाया दीनां विनाशे स्वीकरणीयम् , यतो धर्मास्तिकायस्य गत्याधारत्वपर्यायोत्पादो गत्यनाधारत्वध्वंसपूर्वकः, अधर्मास्तिकायस्य स्थित्याधारत्वपर्यायोत्पादः स्थित्यनाधारत्वध्वंसपूर्वकः, आकाशास्तिकायस्य च जीवाद्यवगाढावगाहदानाधारत्वपर्यायोत्पादस्तदनाधारत्वध्वंसपूर्वकः, न च तेषां ध्वंसानां समुदयाजनितत्वेनैकत्विकत्वेऽपि गत्यनाधारत्वादिप्रतियोगिकत्वान्न धर्मास्तिकायादिप्रतियोगिकत्वमिति धर्मादीनां विनाश एव नास्तीति कथं तस्यैकत्विकत्वमिति वाच्यम् , क्षणविनाशे क्षणविशिष्ट विनाशस्येव गत्यनाधारत्वादिविनाशे तद्विशिष्टधर्मास्तिकायादिविनाशस्याप्यवश्यम्भावात् , यश्च समुदयजनितः स्वाभाविको विनाशः स समुदयविभागलक्षणा-ऽर्थान्तरगमनलक्षणभेदाद् द्विविधः, तत्र समुदयविभागलक्षणविनाशस्य संयोगात्मकसमुदयरूपप्रतियोगिप्रतिपत्तिविरोधित्वेऽपि अर्थान्तर. गमनलक्षणदिनाशस्य प्रतियोगिप्रतिपत्त्यविरोधित्वादिति पटादिपरिणामस्तन्तोरा. न्तरगमनलक्षण एव विनाश इति तस्य तन्तुप्रतिपत्त्यविरोधित्वेन पटकालेऽपि तन्तुप्रतिपत्तेरुपपत्तेरिति ॥ ४९ ॥
ननु स्थूलत्वं महत्त्वलक्षणपरिमाणविशेषो गुणजातीयः, परमाणुश्च द्रव्यम् , तयोश्चाभेदो न संभवति, गुणगुणिनोर्भेदात् , तथा महत्त्वलक्षणपरिमाणविशेषः कारणबहुत्वसङ्ख्यातः कारणमहत्त्वपरिमाणात् कारणगतशिथिलाख्यसंयोगलक्षणप्रचयाच्चोपजायते, यदुक्तम्
“सङ्ख्यातः परिमाणाच, प्रचयादपि जायते । अनित्यं द्वयणुकादौ तु, सङ्ख्याजन्यमुदाहृतम् ॥ परिमाण घटादौ तु, परिमाणजमुच्यते । प्रचयः शिथिलाख्यो यः, संयोगस्तेन जन्यते ॥
परिमाणं तूलकादौ, नाशस्त्वाश्रयनाशतः ।" [कारिकावलि- ] इति, तथा चोक्तकारणत्रयान्यतमेन जायमानस्य महत्त्वस्यावयविनिष्ठत्वं युक्तम् , न तु परमाणुस्वरूपत्वं तस्य जन्यत्वाभावात् , न च परमाणोर्निरवयवस्य कारणं विद्यते येन तद्गतसङ्ख्यादितः परमाणुपरिणतिविशेषः स भवेत् ; न च परमाणु