SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः मेनिरे। संहतस्य परमाणोश्चाक्षुषप्रत्यक्षविषयत्वे यथा घटादेस्तन्यणुकादेश्व संहतपरमाणुस्वरूपस्य चाक्षुषप्रत्यक्षं भवति तथा पिशाचादेस्तथा तत्र्यणुकादेश्व चाक्षुषप्रत्यक्षं स्यात् संहतपरमाणुरूपत्वस्याविशेषादतो घटत्व-तच्यणुकत्वादिघटकपरमाणुसंयोगानां पिशाचत्व-तत्रयणुकत्वादिघटकसंयोगभिन्नानां वैजात्येन द्रव्यसाक्षात्कारत्वावच्छिन्नं प्रति हेतुत्वात् तादृशवैजात्यरूपचाक्षुषप्रत्यक्षजनकतावच्छेदकस्य घटत्वतच्यणुकादिघटकसंयोग एव सत्त्वमतस्तत्संयोगवतः परमाणोरेव चाक्षुषमिति परतन्त्रानुसारिणो वदन्ति । ननु परिणतिविशेषापनानामणूनां नानास्वभावत्वेन चाक्षुषजननस्वभावत्वतच्चाक्षुषत्वस्योपपादनेऽपि, यथैकं द्रव्यं समवेतं यत्र तद्व्यनाशमन्तरेण नान्यद् द्रव्यं तत्रोत्पद्यते इत्यनुरोधेन यथाऽवयव्यभ्युपगन्तुः परस्य मते सामानाधिकरण्यप्रत्यासत्त्या द्रव्यस्य द्रव्यान्तरोत्पत्तिप्रतिबन्धकत्वमुपेयत इति यावन्न पूर्वद्रव्यस्य प्रतिबन्धकस्य विनाशस्तावन्नान्यस्योत्तरद्रव्यस्योत्पादः, अन्त्यावयविनो विनाशतस्तदुत्तरं तदवयवे खण्डावयविनः समुत्पत्तिः, न तु तत्सत्त्वकाले, अन्यथा तं तत्तदवयवाँश्चोपादानीकृत्याप्यपरद्रव्यमुत्पद्येतेत्यन्त्यावयवित्वमेव तस्य न स्यात् , एवं च तन्त्वादिपरिणतानामणूनां पटादिपरिणामो न भवेत् , द्रव्यस्थानीयस्य परिणामस्य द्रव्यान्तरस्थानीयपरिणामप्रतिबन्धकत्वादिति चेत् ? न-अन्त्यावयविनि पटादौ सत्यपि खण्डपटमहापटाद्युत्पत्तिदर्शनेन द्रव्यस्य द्रव्यान्तरोत्पत्तिं प्रति प्रतिबन्धकत्वे मानाभावात् ; नन्वेवं पटे पटान्तरसत्त्वे 'पटे पटः' इत्यपि प्रतीतिः स्यादिति चेत् ? न-पटत्वस्य पटत्वावच्छिन्नाधेयतानिरूपिताधारतानवच्छेदकत्वेन पटे पट इति प्रतीत्यापत्त्यभावात् । ननु द्रव्यनाशः कश्चित् समवायिकारणनाशाद् भवति, यथा कपालनाशाद् घटनाशः, यत्र च सत्यप्यवयवेऽवयविनो नाशस्तत्रासमवायिकारणीभूतसंयोगनाशाद् द्रव्यनाशः, यथा कपालद्वयस्य सत्त्वेऽपि तद्विभागेन घटनाशोऽसमवायिकारणीभूतकपालद्वयसंयोगविनाशात् , तथा च समवायिकारणनाशादसमवायिकारणनाशाद् वा द्रव्यनाश इत्यायाति, परमेवमेवाभ्युपगमेऽसमवायिकारणनाशतो जायमानस्य द्रव्यनाशस्य समवायिकारण. नाशाभावेऽपि भावेन, समवायिकारणनाशतोऽसमवायिकारणनाशोत्पत्तिक्षण एव जायमानस्य द्रव्यनाशस्य पूर्वमसमवायिकारणनाशाभावेऽपि भावेन व्यतिरेकव्यभिचारेण सामान्यतो द्रव्यनाशत्वावच्छिन्नं प्रत्यसमवायिकारणनाशत्वेनासमवायिकारणनाशस्य समवायिकारणनाशत्वेन समवायिकारणनाशस्य च ६ शास्त्र०स०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy