________________
शास्त्रवार्तासमुच्चयः।
[प्रथमः कारणत्वं न सम्भवतीत्यतः समवायिकारणनाशाव्यवहितोत्तरजायमानद्रव्यनाशत्वावच्छिन्नं प्रति समवायिकारणनाशत्वेन समवायिकारणनाशस्य, असमवायिकारणनाशाव्यवहितोत्तरजायमानद्रव्यनाशत्वावच्छिन्नं प्रति असमवायिकारणनाशत्वेनासमवायिकारणनाशस्य कारणत्वं वाच्यमिति गौरवं स्यात् , तदपेक्षया लाघवेन व्यणुकसमवायिकारणस्य परमाणोनित्यस्य नाशो न भवत्येवेति द्वयणुकनाशं प्रति परमाणुद्वयसंयोगात्मकालमवायिकारणनाशस्यैव कारणत्वं क्लुप्तमित्यन्यत्रापि द्रव्यनाशेऽसमवायिकारणनाशस्यैव कारणत्वम् , यत्र कपाललक्षणसमवायिकारणनाशाद् घटनाशः प्रतीयते तत्रापि कपालनाशतः कपालद्वयसंयोगनाशे तत एव घटनाशः, समवायिकारणनाशोत्पत्तिक्षणे निराश्रयस्य द्रव्यस्यावस्था-- नावश्यकत्वेन क्षणद्वयेऽपि द्रव्यस्य निराश्रयावस्थानं स्वीकर्तुमुचितमित्येवं द्रव्यनाशत्वावच्छिन्नं प्रत्येवासमवायिकारणसंयोगनाशस्य हेतुत्वव्यवस्थितौ द्रव्यासमवायिकारणीभूतसंयोगनाशेन पूर्वपटनाशोत्तरमेवोत्तरपटोत्पादः; न च द्वितन्तुकादिरूपे पटे एकैकतन्तुसंयोगे द्वितन्तुकादिपटनाशे वितन्तुकादिपटोत्पत्तिः, पुनरेकैकतन्तुवियोगे त्रितन्तुकादिपटनाशे द्वितन्तुकादिपटोत्पत्तिरिति कल्पनागौरवाद् द्वितन्तुकपटादेरेव तन्त्वन्तरसंयोगेन त्रितन्तुकादिपटोत्पादकत्वमिति वाच्यम् , द्वितन्तुकादिक्रमेणोत्पन्नचतुरादितन्तुकपटस्य द्वितन्तुकासमवायिकारणसंयोगनाशाद् द्वितन्तुकादिनाशक्रमेण नाशः, अन्तरा पुनर्द्वितन्तुकादिक्रमेणोत्पत्तिरिति कल्पनागौरवसाम्यात् , पटादिजनकविजातीयसंयोग प्रति तन्तुत्वादिना हेतुत्वात् तन्तोस्तन्त्वन्तरेण संयोग एव पटजनकविजातीयसंयोगो न तु पटेन सह तन्तुसंयोगः, पटस्य पटजनकविजातीयसंयोग प्रति जनकत्वाभावादिति न द्वितन्तुकादिपटस्य तन्त्वन्तरसंयोगतस्वितन्तुकादिपटोत्पत्तिः किन्तु त्रिचतुरादिसङ्ख्यकानां तन्तूनामेवान्योऽन्यं विजातीयसंयोगात् त्रितन्तुकादिपटोत्पत्तिरिति पूर्वासमवायिकारणीभूततन्तुसंयोगनाशाद् द्वितन्तुकादिपटनाशः, पुनस्त्रिसङ्ख्यकादितन्तुसंयोगात् त्रितन्तुकादिपटोत्पाद इति न द्वितन्तुकादिपटे सत्येव त्रितन्तुकादिपटोत्पत्तिरिति चेत् , न-विजातीयसंयोगस्य द्रव्यहेतुत्वासिद्धेः, द्वितन्तुकपटादिना तन्त्वन्तरसंयोगो न विजातीयः किन्तु तन्तूनां संयोग एव, एतच्च तन्तुत्वेन कारणत्वस्वीकारमात्रेण न निर्वहति, यत्र तान-वितानादिक्रमेण न तन्तूनां संयोगः किन्तूर्ध्वाधोऽवस्थानमात्रतस्तन्तूनां संयोगः, सोऽपि तन्तुसंयोगो भवत्येव, न च ततः पटोत्पत्तिरिति ततो विलक्षण एव संयोगो विजातीयो