________________
८० शास्त्रवार्तासमुच्चयः ।
[प्रथमः कथञ्चिदेकत्वपरिणामः । न्याय्यम् न्यायोपेतम् । मानाविरोधतः प्रमाणविरोधाभावात् , यदि प्रमाणविरोधः स्यात् तदा बाधितत्वान्नैवमनुमातुं शक्यम् , न चैवम् । ननु 'स्थूलत्वं परमाणूनामेव कथञ्चिदेकत्वपरिणामः, परमाणूनामेव कथञ्चिदेकत्वपरिणामत्वाद्' इत्येवमनुमानप्रयोगे हेतु-साध्ययोरक्याद्धेतोः सिद्धौ तदात्मकं साध्यमपि सिद्धमिति सिद्धसाधनदोषः, साध्यस्यासिद्धौ तदात्मको हेतुरप्यसिद्ध इति हेत्वसिद्धिरिति चेत् ? स्यादेवं, यद्यप्येकरूपेणैव हेतु-साध्यभावो भवेत् , न चैवम् , किन्तु मूर्ताणुसङ्घातभिन्नभेदरूपेण हेतुना मूर्ताणुसङ्घातरूपत्वं साध्यते, तथा च हेतु-साध्ययोरैक्येऽपि हेतुतावच्छेदक-साध्यतावच्छेदकयोर्भेदात् , हेतुतावच्छेदकरूपेण सिद्धावपि साध्यतावच्छेदकरूपेण सिद्ध्यभावान्न सिद्धिसाधनावकाशः, साध्यतावच्छेदकरूपेणासिद्धावपि हेतुतावच्छेदकरूपेण सिद्धत्वाद्धेत्वसिद्धिरपि नास्तीति, यदा च परमाणूनामेवैकत्वपरिणामः स्थूलत्वं तदा परिणाम्यणुद्रव्यरूपेण तस्य प्रागपि सिद्धं सत्त्वम् । ___ अत्र स्याद्वादिनां प्रक्रिया अनेकान्ततत्त्वमर्मज्ञैर्यशोविजयोपाध्यायैरुपदर्शिता सोपस्कारोपदीते, तथाहि-अणूनामेवैकत्वसङ्ख्या-संयोग-महत्त्वा-ऽपरत्वादिपर्यायैरुत्पत्तिः, विशकलितानामणूनामनेकेषां प्रागेकत्वसङ्ख्यादिपर्यायाणामभावात् , बहुत्वसङ्ख्या-विभागा-ऽणुपरिमाण-परत्वादिपर्यायैश्वानुत्पत्तिः, बहुत्वसङ्ख्यादीनां तत्र पूर्वमपि भावात् ; संहतपरमाण्वव्यतिरिक्तं नैयायिकादिपरिकल्पितमवयविद्रव्यं च नास्ति; न च विशिष्टाण्वतिरिक्तावयव्यभावे विभक्तस्याणोर्यथा चाक्षुषप्रत्यक्षं न भवति तथा संहतस्याप्यणोः चाक्षुषप्रत्यक्षं न भवेदिति जगति चाक्षुषप्रत्यक्षाभाव एव प्रसक्त इति वाच्यम् , परमाणो नास्वभावत्वेनाचाक्षुषत्वमिव चाक्षुषत्वमपि तस्य स्वभावः संहतिकालश्च तन्निमित्तमिति तदा चाक्षुषप्रत्यक्षजननस्वभावत्वाच्चाक्षुषप्रत्यक्षविषयत्वम् , यथा विप्रकृष्टेषु रेणुषु चाक्षुषप्रत्यक्षाजननस्वभावत्वं सन्निकृष्टेषु तेषु चाक्षुषप्रत्यक्षजननस्वभावत्वमित्येवं विभिन्ननिमित्तापेक्षनानास्वभावत्वं दृश्यते तथा प्रकृतेऽपि, अणूनां नानास्वभावस्य दर्शनबलाद् व्यवस्थितौ यस्य सन्निकृष्टस्य प्रमातुर्भवति यत्संहतस्य दर्शनं तत्प्रमात्रपेक्षया तस्य संहतस्य परमाणोश्चाक्षुषजननस्वभावत्वम् , यस्य च न भवति दर्शनं तत्प्रमात्रपेक्षया तस्यैव चाक्षुषाजननस्वभावत्वमित्येवमुपगमे एकस्य प्रत्यक्षे सर्वस्यापि प्रमातुस्तत्प्रत्यक्षापत्तिरित्येवमतिप्रसङ्गो, न भवतीत्येवं बहवो