________________
७६
शास्त्रवार्तासमुच्चयः।
[प्रथमः स्वभावाश्चेत् तेऽत्र मानं न विद्यते” इति पूर्वार्द्धपाठः, तत्र द्वितीयचरणस्य नवाक्षरत्वम् , “तजननस्वभावा नेत्यत्र मानं न विद्यते” इति मुद्रितयशोविजयोपाध्यायविरचितटीकोपेतमूलग्रन्थे पाठः, तत्र नवाक्षरत्वं द्वितीयचरणे नास्ति, किन्तु येष्वण्वादिषु तज्जननस्वभावत्वं निषिध्यते तत्प्रतिपादकं वचनं न विद्यते, तथा च कः पाठोऽत्रादरणीय इत्याकाङ्क्षानिवृत्तये ममेदं भाति-"न तजननस्वभावास्तेऽत्र मानं न विद्यते” इति पाठो भवितुमर्हति, आशङ्काप्रतिपादकवचनाभावेऽप्याशङ्का यथोपाध्यायधृतपाठेऽर्थादवगम्यते तथा प्रकृतेऽपि, अणुरपि विशेषोऽध्यवसायकर इति न्यायात् , अण्वादिधर्मिप्रतिपादकवचनघटितत्वादयं पाठो युज्यते, बहुषु प्राचीनपद्येषु नवाक्षरत्वमपि चरणे दृश्यत इति तस्य न दोषत्वमिति यदि भवति प्रेक्षाशालिनां मतिस्तदा नवाक्षरचरणघटितपाठ एव शङ्काभिलापकपदघटितत्वाद् युक्त इति ध्येयम् । ते अण्वादयः । तजननस्वभावाः असत्पञ्चमभूतादिजननस्वभावाः। न नैव, ततो नाण्वादिभ्यः पञ्चमभूताद्युत्पत्तिः, स्वभावस्यापर्यनुयोज्यत्वात् कथमण्वादयो नासत्पञ्चमभूताधुत्पादकस्वभावा इति पर्यनुयोगो न शक्यते कर्तुम् , अन्यथा कथं वह्निर्दहति कथमाकाशो न दहतीत्यादिपर्यनुयोगोऽप्यापद्येत । चेद् एवं पर आशङ्केत, अत्र आशङ्किते, अण्वादीनामसत्पञ्चमभूताद्यजननस्वभावत्वे, मानं प्रमाणम् , न विद्यते नास्तीति, अण्वादीनां निर्विकल्पकप्रत्यक्षप्रमाणगम्यत्वस्य परेणाभ्युपगततया निर्विकल्पकप्रत्यक्षविषयत्वमण्वादिष्वसदजननस्वभावस्यापीत्येतत् तदा स्याद् यदि निर्विकल्पकप्रत्यक्षानन्तरभाविनिश्चयात्मकसविकल्पकप्रत्यक्षं परमाण्वादिगततयाऽसदजननस्वभावमवगाहेत, न च तत् तथाऽवगाहत इति निर्विकल्पकप्रत्यक्षमपि न तेष्वसदजननस्वभावमवगाहत इत्यकामेनापि स्वीकरणीयत्वेन निर्विकल्पकं न तत्र प्रमाणम् , “यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" [ ] इति वचनात् स्वसंवेदनात्मकनिर्विकल्पकप्रत्यक्षविषयत्वमपि तदैव तत्र कल्पयितुं शक्यं यद्युत्तरकालं तथा निश्चयः स्यात् , निर्विकल्पके तत्तद्विषयत्वस्य निश्चयैकोन्नेयत्वादिति हृदयम् । अत्र परः शङ्कते–स्थूलत्वोत्पाद इष्टश्चेदिति-नन्वणुषु मिलितेषु स्थूलत्वस्य-महत्त्वस्योत्पाद इष्टोऽभिमतो भवतः, 'यद्युत्तरकालं सत् पूर्वकालमसत् तर्हि महत्त्वादिकमुत्पद्यते, यच्च पूर्वकालमुत्तरकालं चासत् पञ्चमभूतादि तन्नोत्पद्यत एवेति स्थूलत्वोत्पादान्यथानु