________________
स्याद्वादवाटिकाटीकासङ्कलितः
पपत्तिरेव सर्वदाऽसत्पञ्चमभूताद्युत्पत्तिप्रसङ्गलक्षणातिप्रसङ्ग भङ्गायास दजननस्वभावत्वेनोपादानस्यो पेय हेतुत्वे मानमिति चेत् ? अत्रोत्तरमाह - तत्सद्भावेऽपीति-स्थूलत्वस्याणुषु कथञ्चित् सद्भावेऽपीत्यर्थः । असौ स्थूलत्वोत्पादः । समः तुल्यनिर्वाहः, तथा च लाघवात् सज्जनन स्वभावत्वेनैवोपादानस्योपेयहेतुता, न त्वसदजननस्वभावत्वेन, तथा च सदेव पूर्वकाले महत्त्वमत उत्पद्यते, यद्येवं चैतन्यमपि भवेत् तदैवोत्तरकाले उत्पद्येत नान्यथेति न प्रत्येकावस्थायामसतश्चैतन्यस्य समुदितावस्थायामुत्पादः सम्भवतीति ॥ ४८ ॥
:]
स्तबकः
७७
उक्तदिशा सत्कार्यसिद्धौ पर्यायार्थिकनयानुसारिणः पर्यायमेवाऽऽमनन्तीति पर्यायद्वारेणैव कार्यस्य पूर्वोत्तरकालयोः सत्त्वमादिशन्ति, न तु द्रव्यद्वारेण, तस्य निष्पन्नत्वेन सर्वदाऽवस्थितत्वाददलत्वात्, द्रव्यार्थिकनयानुसारिणस्तु न पर्यायो नामांस्ति कृश्चिद् येन तद्रूपेण द्रव्यमुत्पद्येतेति पर्यायरूपेण द्रव्यस्यानुत्पन्नत्वाद् द्रव्यरूपेणैव कार्यस्य पूर्वोत्तरकालयोः सवमादिशन्ति तदिदमभिप्रेत्य सम्मतायुक्तम्
wwwwww
"
“पच्चुप्पन्नं भावं विगय- भविस्सेहिं जं समण्णेइ ।
एयं पच्चवणं दव्वंतरणिस्सियं जं च ॥” गाथा - १०० इति ॥
[ प्रत्युत्पन्नं भावं विगत-भविष्यद्भयां यत् समन्वेति ।
एतत् प्रतीत्यवचनं द्रव्यान्तरनिश्रितं यच्च ॥ इति संस्कृतम् ] एतद्वृत्तिरित्थम् -
प्रत्युत्पन्नं भावं - वस्तुनो वर्तमानपरिणामम्, विगत-भविष्यद्भ्यां पर्यायाभ्यां यत् समानरूपतया नयति- प्रतिपादयति, वचः, तत् प्रतीत्यवचनं - समीक्षितार्थवचनम्, सर्वज्ञवचनमित्यर्थः, अन्यच्चानाप्तवचनम् । ननु वर्तमानपर्यायस्य प्रापि सद्भावे कारकव्यापारवैफल्यम्, क्रिया- गुणव्यपदेशानां च प्रागप्युपलम्भप्रसङ्गश्व, उत्तरकालं च सद्भावे विनाशहेतुव्यापारनैरर्थक्यम्, उपलब्ध्यादिप्रसङ्गश्च ततो यद् यदैवोपलम्भादिकार्यकृत् तत् तदैव न प्राक् न पश्चात्, अर्थक्रियालक्षणसत्त्वविरहे वस्तुनोऽभावात् असदेतत् तस्य प्रागसत्वेऽदलस्योत्पत्त्ययोगात्, न चात्मादि द्रव्यं विज्ञानादिपर्यायोत्पत्तौ दलम्, तस्य निष्पन्न त्वात्, न च निष्पन्नस्यैव पुनर्निष्पत्तिः, अनवस्थाप्रसङ्गात्, न च तत्र विद्यमान एव ज्ञानादिकार्योत्पत्तिः, 'तत्र' इति सम्बन्धाभावतो व्यपदेशाभावप्रसङ्गात्,
"
9