________________
शास्त्रवार्तासमुच्चयः।
[प्रथमः पर्येऽप्रवृत्तेः, अत एव नानुमानस्यापि पौर्वापर्ये प्रवृत्तिः, तस्य तत्पूर्वकत्वात् प्रत्यक्षाप्रतिपन्नेऽर्थे परलोकादाविवार्थविकल्पनमात्रत्वेन सर्वज्ञानस्याभ्युपगमात् , तन्नासत्कार्यवादः प्रमाणसङ्गतः। सत्कार्यवादस्तु प्रागेव निरस्तत्वादयुक्त एव, तथाहि-नित्यस्य कार्यकारित्वं तत्र स्यात् , तच्चायुक्तम् , नित्यस्य व्यतिरेकाप्रसिद्धितः कार्यकरणे सामर्थ्याप्रसिद्धेः, नहि नित्यस्य सर्वदेशकालव्यापिनः कचित् कार्यव्यापारविरहिणः सामर्थ्यमवगन्तुं शक्यम् । अथ सर्वदेशाव्यापिनस्तस्य तत्र सामर्थ्य भविष्यति, तदसत्-यतः सर्वदेशाच्याप्तिस्तस्य तथाप्रतीते. यद्यवसीयते सर्वकालाव्याप्तिरपि तस्य तत एवाभ्युपगमनीया स्यात् ; अभ्युपगम्यत एवेति चेत् ? नन्वेवं कतिपयदेशकालव्याप्तिरप्यप्रतिपत्तरेवानुपपन्नेति निरंशैक-" क्षणरूपता भावानां समायाता, न च तदेकान्तपक्षेऽपि कार्यजनकता, प्राक् प्रतिक्षिप्तत्वात् , न चैकान्तनित्यव्यापकत्वपक्षे प्रमाणप्रवृत्तिरित्यसकृत् प्रतिपादितम् , न चासति कार्य निर्विषयत्वात् कारणव्यापारासम्भवात् सत्येव तत्र तेषां व्यापारः, यतो न दृष्टा श्रुत्वा ज्ञात्वा वा हेतूनां कार्य व्यापारः, तेषां जडत्वेन तदसम्भवात् , न चादृश्यमानाऽजडेश्वरादिहेतुकमदृष्टोत्पत्तिकं भूरुहादि सम्भवतीति प्राक् प्रतिपादितम् , न चासतः कार्यस्य विज्ञानं न ग्राहकम् , असत्यप्यध्यक्षादिबुद्धः प्रवृत्तेः, अन्यथा कथं कार्यार्थप्रतिपादिका चोदना भवेत् ; किञ्च यदि सत्येव कार्ये कारणव्यापारस्तदा उत्पन्नेऽपि घटादिकार्ये कारणव्यापारादनवरतं तदुत्पत्तिप्रसक्तिः तत्सत्त्वाविशेषात् ; अथाभिव्यक्तत्वानोत्पन्ने पुनरुत्पत्तिः, उत्पत्तेरभिव्यक्तिस्वरूपत्वात् , तस्याश्च प्रथमकारणव्यापारादेव निर्वृत्तत्वात् , ननु अभिव्यक्तिरपि यदि विद्यमानैवोत्पद्यते, उत्पन्नाऽपि पुनः पुनरुत्पद्येत, अथाविद्यमाना सा, तदाऽसदुत्पत्तिप्रसक्तिः, न चाभिव्यक्तावप्यसत्यां कार्य इव कारणव्यापारोऽभ्युपगन्तुं युक्तः, स्वसिद्धान्तप्रकोपप्रसङ्गात् ; अथ सतः कारणात् कार्यमिति सत्कार्यवादः, असतो हेतुत्वायोगात् , तथाऽभ्युपगमे वा शशशृङ्गादेरपि पदार्थोत्पत्तिप्रसक्तिः, अत्यन्ताभाव-प्राग्भावयोरसत्त्वेनाऽविशेषात् , न च प्राग्भावी आसीदिति हेतु त्यन्ताभावीति वक्तव्यम् , यतो यदाऽसीत् तदा न हेतुः, अन्यदा हेतुरिति प्रसक्तेः, ततश्चेदं प्रसक्तम्-असन् हेतुः सँश्वाहेतुरिति, ततः सन्नेव हेतुस्तस्य कार्ये व्यापारात्, नासन् तत्र तदयोगात्, एतदप्यसत्यतः सतोऽपि कारणस्य प्राक्तनरूपापरित्यागान कार्य प्रति हेतुता प्राक्तनावस्थावत् ; अथ तदाव्यापारयोगा तुता, असदेतत्-व्यापारेण कार्य प्रति तस्य हेतुत्वे