________________
स्तबकः ]
स्याद्वादवाटिकाटीकासङ्कलितः
"
क्षणिकत्वान्न कार्यरूपता, अतः सन्तानान्तरमन्त्रापि कार्यतानिबन्धनमभ्युपगन्तव्यम्, तत्रापि च क्षणिकत्वे कार्यताऽप्रसिद्धेस्तन्निबन्धनमपरं सन्तानान्तरमभ्युपगमनीयमित्यनवस्था परिस्फुटैव, किञ्च, क्षणिक भावाभ्युपगमवादिनो यदि भिन्नकार्योदयाद्धेतोः सत्त्वमभिमतं तदा तत्कार्यस्याप्यपर कार्योदयात् सत्त्वसिद्धिरित्यनवस्थाप्रसक्तेर्न क्वचित् सत्त्वव्यवस्था स्यादिति कुतस्तद्वयवच्छेदेन 'असत् 'कार्यम्' इति व्यपदेशः; अथ ज्ञानलक्षणकार्य सद्भावाद्धेत्वोः सत्त्वव्यवस्थितिः, ननु ज्ञानस्यापि कथं ज्ञेयसत्ताव्यवस्थापकत्वम् ? ज्ञेयकार्यत्वादिति चेत् ? ननु किं तेनैव ज्ञानेन ज्ञेयकार्यता स्वात्मनः प्रतीयते ? उत ज्ञानान्तरेण ? न तावत् तेनैव तस्य प्रागसत्त्वाभ्युपगमादप्रवृत्तेः प्रवृत्तौ वा तत्कार्यतावगतिः पुनः प्राक्प्रवर्तने सङ्गच्छते, तत्रापि पुनः प्राक्प्रवृत्तावित्यनवस्थाप्रसक्तेः कुतस्तस्य तत्कार्यतावगतिः; अथ समानकालत्वेऽपि ज्ञानस्य ज्ञेयकार्यता, नन्वेवमविशेषाज्ज्ञेयस्यापि ज्ञानकार्य त । वगतिः स्यादिति तदपि तद्वयवस्थापकं प्रसज्येत, न च समानकालयोः स्तम्भ-कुम्भयोः कार्यकारणतोपलब्धेति प्रकृतेऽपि सा न स्यात् ; अथ केवलस्यापि कुम्भस्य दृष्टेरकार्यता, ज्ञानस्यापि केवलस्य दृष्टेरकार्यताप्रसक्तिः, तस्य ततोऽन्यत्वान्न व्यभिचार इति चेत् ? ननु कुम्भोऽपि कुतोऽन्यः स न भवेत्, प्रत्यभिज्ञानान्नान्य इति चेत् ? एतद् ज्ञानेऽपि समानम्, नित्यता च कुम्भस्यैवं भवेदिति कुतोऽसत्कार्यवादः ? न च प्रत्यभिज्ञानं भवतः प्रमाणम्, पूर्वापररूपाधिकरणस्यैकतयाऽप्रतीतेः, नहि पूर्वापरप्रत्यय। भ्यामपरपूर्वरूपताग्रहः, नापि एकप्रत्ययेन पूर्वापररूपद्वयस्य क्रमेण ग्रहः, एकस्याक्रमस्य क्रमवद्रूपग्राहकतयाऽप्रवृत्तेः, न च स्मरणस्य द्वयोर्वृत्तिः संभवति, न चास्य प्रमाणता, न च पूर्वापरप्रत्यययोः परस्परपरिहारेण वृत्तौ तत उत्पद्यमानं स्मरणमेकत्वस्य वेदकं युक्तम्, अगृहीतग्राहितयाऽस्मरणरूपताप्रसक्तेः, न चात्माऽप्येकत्वमवैति, प्रत्यक्षादिप्रमाणवशेनार्थावेदकत्वात् तस्य चैकत्वेऽप्रवृत्तेः न च प्रमाणनिरपेक्ष एवात्मैकत्वग्राहकः, स्वाप -मद-मूर्च्छाद्यवस्थायामपि तस्य तग्राहकत्वापत्तेः, न च तस्याप्येकत्वं कुतश्चित् प्रमाणात् प्रसिद्धम्, तग्राहकत्वेन तस्याप्रतीतेः, न च बौद्धस्यात्माऽन्यद् वा वस्तु नित्यमस्ति "क्षणिकाः सर्वसंस्काराः " [ ] इति वचनात्, तन्न - तेनैवात्मनः प्रमेयकार्यताऽवगतिः, नापि अन्येन तस्यापि स्वप्रयकार्यतावगतौ प्रागवृत्तितयाऽसामर्थ्यात् तन्न ज्ञानलक्षणमपि कार्यं हेतोः सत्तां व्यवस्थापयितुं समर्थं क्षणिकैकान्तवादे, अध्यक्षस्य यथोक्तन्यायेन पौर्वा
,
"
"
७३