SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [ प्रथमः स्वरूपमात्रस्य कार्येऽपि सद्भावात् तस्थापि प्रागभावरूपताप्रसक्तेः; अथ कार्यान्तरापेक्षया तस्यापि प्रागभावरूपता कारण स्वभावाभ्युपगम्यत एव, न-कारणाभिमतापेक्षयाऽपि तद्रूपताप्रसक्तेः; तथाप्रतीत्यभावान्न तद्रूपतेति चेत् ? न - प्रतीतिमात्रादनपेक्षितवस्तुस्वरूपाद् वस्तुव्यवस्थाऽयोगात्, ततो मृत्पिण्डादिरूपतया वस्तु गृह्यतेऽध्यक्षादिना, न पुनस्तद्व्यतिरिक्तकारणादिरूपतया, तस्यास्तत्राप्रतिभासनात्, प्रतिभासनेऽपि विशिष्टकार्यापेक्षया कारणत्वस्य प्रतिपत्तौ कार्य प्रतिभासनमन्तरेण तत्कारणत्वस्याप्रतीतेरस तस्तदानीं कार्यस्याप्रतिभासनात् प्रत्यक्षस्या सदर्थग्राहकत्वेन भ्रान्तताप्रसक्तेः, तदा तत्कार्यस्य सत्त्वप्रसक्तिः स्यादिति कथमसति कारणव्यापारः प्रतीयेत ? तन्नासतः कार्यत्वं युक्तम् । नापि असत्कारणं कार्यम् ; तदानीमसति कारणे तस्य तत्कृतत्वायोगात्, क्षणमात्रावस्थायिनः कारणस्य स्वभावमात्रव्यवस्थितेरन्यत्र व्यापारायोगात् ; अथ तदनन्तरं कार्यस्य भावात् प्राग्भावित्वमात्रमेव कारणस्य व्यापारः, असदेतत् - समस्तभावक्षणानन्तरं विवक्षितकार्यस्य सद्भावात् सर्वेषां तत्पूर्वकालभावित्वस्य भावात् तत्कारणता - प्रसक्तेः; अथ सर्वभावक्षणाभावेऽपि तद्भाव इति न तस्य तत्कार्यता, न-क्षणिकेषु भावेषु विवक्षितक्षणाभाव एव सर्वत्र विवादाध्यासितकार्य सद्भावान्न तदपेक्षयाsपि तस्य कार्यता भवेत् ; न च क्षणिकस्य कार्यस्य तदभावेऽपि पुनर्भवन संभवः, तस्य तदैव भावात्, अन्यदा कदाचिदप्यभावात् ; न च विशिष्टभावक्षणधर्मानुविधानात् तस्य तत्कार्यताव्यवस्था, सर्वथा तद्धर्मानुविधाने तस्य कारणरूपतापत्तेस्तत्प्राक्कालभावितया तत्कार्यताव्यतिक्रमात् कथञ्चित्तद्धर्मानुविधाने अनेकान्तवादापत्तेरसत्कारणं कार्यमित्यभ्युपगमव्याघातात्; अथ सन्तानापेक्षः कार्यकारणभाव इत्ययमदोषः, न-सन्तानस्य पूर्वापरक्षणव्यतिरेकेणाभावात्, भावे वा तस्यैव कार्यकारणरूपस्यार्थक्रियासामर्थ्यात् सत्त्वं स्यात्, न क्षणानामर्थ - क्रियासामर्थ्यविकलतया भवेत् ; अथ तत्सम्बन्धिनः सन्तानस्य कार्यकारणत्वे तेषामपि कार्यकारणभावः, न- भिन्नयोः कार्यकारणभावादपरस्य सम्बन्धस्या - भावात् सन्तानस्य च सर्वजगत्क्षणानन्तरभावित्वेन सर्वसन्तानताप्रसक्तिः स्यात्, किञ्च, तस्यापि नित्यत्वे क्षणकार्यत्वे च सत्कार्यवादप्रसक्तिः, क्षणिकत्वे चान्वयाप्रसिद्धेस्तस्य तत्कार्यताऽप्रसिद्धिः, व्यतिरेकश्च कार्यतानिबन्धनं क्षणिकपक्षे न सम्भवतीति प्रतिपादितमेव; न च अत्राप्यपरसन्तानप्रकल्पनया कार्यकारणभावप्रकल्पनं युक्तम्, अनवस्थाप्रसक्तेः, तथाहि - सन्तानस्यापि कार्यताभ्युपगमे ७२ "
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy