________________
स्तबकः]]
स्याद्वादवाटिकाटीकासङ्कलितः [यान् सद्वाददोषान् शाक्योलूका भणन्ति साङ्ख्यानाम् ।
साङ्ख्याश्चासद्वादे तेषां सर्वेऽपि ते सत्याः ॥ इति संस्कृतम्] इत्यनया गाथया, एतद्वृत्तिः शिष्यबुद्धिवैशद्यायोल्लिख्यते
"यानेकान्तसद्वादपक्षे द्रव्यास्तिकाभ्युपगतपदार्थाभ्युपगमे शाक्योलूक्या दोषान् वदन्ति साङ्ख्यानां क्रिया-गुणव्यपदेशोपलब्ध्यादिप्रसङ्गादिलक्षणान् , ते सर्वेऽपि तेषां सत्या इत्येवं सम्बन्धः कार्यः, ते च दोषा एवं सत्याः स्युर्यधन्यनिरपेक्षनयाभ्युपगतपदार्थप्रतिपादकं तच्छास्त्रं मिथ्या स्यात् , नान्यथा, प्रागपि कार्यावस्थात एकान्तेन तत्सत्त्वनिबन्धनत्वात् तेषाम् , अन्यथा कथञ्चित् सत्त्वे अनेकान्तवादापत्तेर्दोषाभाव एव स्यात् ; साङ्ख्या अपि असत्कार्यवाददोषान् असदकरणादीन् यान् वदन्ति ते सर्वे तेषां सत्या एव, एकान्तासति कारणव्यापारासम्भवात् , अन्यथा शशशृङ्गादेरपि कारणव्यापारादुत्पत्तिः स्यात् । अथ शशशृङ्गस्य न कारणावस्थायामसत्त्वादनुत्पत्तिः, किन्तु कारणाभावात् , घटादेस्तु मृत्पिण्डावस्थायामसतोऽपि कारणसद्भावादुत्पत्तिः; ननु कुतः शशशृङ्गस्य कारणाभावः ? अत्यन्ताभावरूपत्वात् तस्येति चेत् ? तदेव कुतः ?, कारणाभावादिति चेत् ? सोऽयमितरेतराश्रयदोषः, घटादीनामपि च मृत्पिण्डावस्थानामसत्त्वे कुतः कारणसद्भावः, प्रागसत्त्वादेव तत्र कारणसद्भावः सति कारणव्यापारासम्भवादिति चेत् ? असदेतत्-घटस्य मृत्पिण्डावस्थायां सत्त्वे प्रागनवस्थायोगात्, असत्त्वेऽपि शशशृङ्गस्येव तदनुपपत्तः, अथास्योत्पत्तिदर्शनात् प्रागभावः, न शशशृङ्गस्य, न-इतरेतराश्रयदोषप्रसक्तेः, तथाहि-यावदस्य न प्रागभावित्वं न तावदुत्पत्तिसिद्धिः, यावच्च नोत्पत्तिसिद्धिन तावत्प्रागभावित्वसिद्धिरिति व्यक्तमितरेतराश्रयत्वम् ; अथ कारणस्य कार्यशून्यता प्रागभावः प्रागेव सिद्धः, असदेतत्-अकारणस्यापि कार्यशून्यतोपलम्भात् , तत्सम्बन्धाद् घटस्य तत्कार्यताप्रसक्तेः, तथाहि-यस्य प्रागभावित्वं तस्य कार्यता, तत्कार्यशून्यं पदार्थान्तरं कारकाभिमतादन्यदपि च तत्प्रागभावस्वभावं प्राप्तम् , तत्सम्बन्धेन च घटादेः शशशृङ्गादिव्यवच्छेदेन कार्यताऽभ्युपगतेति सूत्रपिण्डकार्यताऽपि घटस्यैवं भवेत् ; न च तदन्वय-व्यतिरेकाभावान्न तत्कार्यता, अन्वय-व्यतिरेकाभावस्य तत्रासत्त्वनिबन्धनत्वात् , न च प्रागभावो नाम प्रत्यक्षादिप्रमाणग्राह्यः, मृत्पिण्डस्वरूपमात्रस्यैव तत्र प्रतिभासनात् , न च कारणस्वरूपमेव प्रागभावः, निर्विशेषणस्य