SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७० शास्त्रवार्तासमुच्चयः । [प्रथमः रित्यपि वक्तुं न शक्यम्, कार्यस्य प्रागपि सत्त्वेन स्वाधिकरणक्षणध्वंसानधिकरणस्वाधिकरणक्षणात्मकायक्षणसम्बन्धरूपाया उत्पत्तेर्निरुक्ताद्यक्षणाप्रसिद्ध्याऽसम्भवादित्युत्पत्तेः प्रागसत्त्वमपि नोपपद्यते सत्त्वमपि नोपपद्यत इति चेत् ? न-उक्तदिशाऽसत्कार्यवादस्यैकान्तस्य सत्कार्यवादस्य चैकान्तस्य दूषितत्वेऽपि स्थाद्वाद्युपगते कथञ्चित्सदसत्कार्यवादेऽनेकान्ते दोषाभावात् , द्रव्यरूपेण पर्यायस्वरूपकार्यस्योत्पत्तेः प्राक् सत्त्वम्, स्वासाधारणपर्यायस्वरूपेण चासत्त्वमित्येवं कथञ्चित्सदसत्कार्यवादो विरोधानाघ्रातः, तत्र द्रव्यरूपेण प्राक् सतः कार्यस्य द्रव्यरूपेणोपलब्धिर्भवत्येव, पर्यायस्वरूपेण च प्रागसतो निरुक्ताद्यक्षणसम्बन्धरूपोत्पत्तिरपि सुघटैव, एवं सत्येव चोपादानकारणत्वमप्युपपद्यते, यद्रूपेण यस्योत्पत्तेः प्राक् सत्त्वं तद्रूपवत्त्वमेव तस्योपादानकारणत्वमिति द्रव्यरूपे सम्भवतीदम् , असत्कार्यवादेऽन्यादृशमेवोपादानकारणत्वमभिमतं तन्न सङ्गतम् , स्वसमवेतकार्यकारित्वलक्षणस्य तस्य समवायनिरासेन निरस्तत्वात् , यत्र कारणे यत्कार्यप्रागभावसत्त्वं तस्य तदुपादानत्वमित्यपि न सुसङ्गतम् , यतः प्रागभावस्य प्रतियोगिना समं स्वरूपाख्यः सम्बन्धः, उपादानात्मकानुयोगिना सममपि स्वरूपाख्य एव सम्बन्धः, तथा च यदि किञ्चित्स्वरूपेण कार्यमवस्थितं स्यात् तदा तत्स्वरूपसम्बन्धेन प्रागभावसम्बन्धिकार्यमिति तत्प्रागभाव इति वक्तुं युज्येत, तत्स्वरूपसम्बन्धात्मना च कार्य-तत्प्रागभावयोरप्यैक्यम्, तथा कार्यप्रागभाव-तत्कारणयोरपि किञ्चित्स्वरूपमुभयानुगतं भवेत् तदा तेन स्वरूपेण कार्यप्रागभावसम्बन्धि तत्कारणं भवेत् , तथोपगमे च तत्स्वरूपात्मना कारणा. भिन्नस्य प्रागभावस्याभिन्नं कार्यमिति तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमबलात् कार्यकारणयोः कथञ्चित्तादात्म्यमायाति, अन्यथा कार्यप्रागभाव इत्यपि वक्तुं न शक्यते तद्वत् कारणमित्यपि वक्तुमनहमिति, यत एव सदसत्कार्यवाद एवोत्पत्युपादानत्वादयो घटन्ते, नैकान्तासत्कार्यवादे नैकान्तसत्कार्यवादे च, तत एव बौद्ध-वैशेषिकाणां सत्कार्यवादे, साङ्ख्यानां चासत्कार्यवादे तान्त्रिकैरुपदर्शिताः पर्यनुयोगा एकान्तपक्षनिवृत्त्यंशे फलवन्त एव, संवदति चामुमर्थ संमतौ वादिप्रकाण्डसिद्धसेनः "जे संतवायदोसे सक्को-लूा भणंति संखाणं । संखा य असव्वाए तेसिं, सव्वे वि ते सञ्चा" ॥ गाथा-१४७ ॥
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy