________________
८८
द्वादशारनयचक्रे
व्यक्तेरभिमुखीभूता तदा तस्या देश उदकस्थ एवाङ्कुरोद्भावने प्रवर्त्तमानः सभावक इत्युच्यते, अन्यदा तु विपर्ययः।
एवं भूमिवायुकालप्रभृतिष्वपि सभावकाभावकत्वे । यदुक्तं पुरुषस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यमिति तन्न, तत्रापि नियतेरेव कारणत्वात् पुरुषो व्यग्रोऽव्यग्र इत्यादि हि नियतेरेव, सापि तादृशी, एवमप्रयुक्तेषु, स्वातन्त्र्यादेव नियतिः प्रयुक्तेष्वपि करणादीनां क्षमत्वाक्षमत्वप्राप्त्यप्राप्त्यादौ तथा नियतत्वात्, एतेन पाकादिदोषाः प्रत्युक्ताः।
सर्वज्ञोऽपि च न नियतिमन्तरेण, तामेवासौ नियतिमखिलां पश्यन् सर्वज्ञो भवति स हि भव्याभव्यसिद्धादिभेदेषु पुरुषेषु गतिस्थित्यवगाहवर्त्तनारूपरसादिशरीरवाङ्मनःप्राणादिपरिणतिरूपामसङ्कीर्णामनादिमध्यान्तां वस्तुनियतिमेकामनेकरूपां बन्धमोक्षप्रक्रियानियतिसूक्ष्मां पश्यन्ननन्तकालमव्याबाधसुखं तिष्ठतीति । अथ कालवादः
नायमपि नियतिवादः परितोषकरः, एवं तर्हि भावनयाऽनयैव त्वदुक्तया युगपदयुगपनियतार्थवृत्तेर्न नियतिरेव, किन्तर्हि? काल एव भवतीति भावितं भवति।
इह युगपदवस्थायिनो घटरूपादयः किं परस्परं प्रविभक्तितः स्वेनैव भवन्ति उत कालसामर्थ्यात्? तत्र तावन्न केचिदपि वस्तुप्रविभक्तितः, तेषां सहोपलभ्यमानानामपि तद्व्यतिरेकेणाभावात्, भिन्नेन्द्रियग्राह्यत्वादेव च तेषामैक्याभावाद्योगपद्यमतो युगप