________________
द्वितीयो विधिविध्यरः ।
द्वृत्तिप्रख्यानात्मकं कलनात्मानं च कालमन्तरेण न ते युगपद्भवितुमर्हन्तीति रूपादयो युगपदित्यैतत् कालसामर्थ्यात्, एवं घटो ग्रीवादयो मृलीष्टादयः पृथिवी मृदादयो द्रव्यं पृथिव्यादयो द्रव्यादयो भाव एव तथावृत्तेस्तथाभवनात् ।
८९
अयुगपद्भाविनोऽपि भवितुकामस्य वस्तुनो वृत्त्यात्मककालाभावेऽनुपपत्त्यापत्तेः वर्त्तनाभावाद्वन्ध्यासुतवत् सति च तदुपपत्तेः कालात्मकता ।
नियतेस्तु सर्वात्मकत्वात्स्वभावोपालम्भवन्नियत्युपालम्भोऽपि त्वामपि प्रति समानः, सदा सर्वस्यातीतानागतानाकारतावद्वर्त्तमानानाकारता स्यात् वर्तमानाकारतावदतीतानागताकारताऽपि स्यात् ।
अपि च तथापि नैव कालातिक्रम इति स्वीक्षितमपि कालादृते नान्यत् कारणमवस्थानां क्रमेण रूपादीनां वा युगपदवस्थापकमा - लक्ष्यते, अस्मात् कललार्बुदपेशीघनादिक्रमेण नियतानन्तराभिव्यक्त्यैवाऽभ्युपगतमपि कालं नियतिमात्रग्राहदोषेण स्वपक्षरा - गाच्चानिच्छता त्वयाऽऽत्मा तेभ्यो गुणेभ्योऽपनीयते ।
..
यदि नियतिकृतैवार्थप्रवृत्तिस्तथापीदं पूर्वमिदं पश्चादिदमिदानीमिदं युगपदिति न युज्यते, सर्वेषां तेषां बीजादौ नियतेः सन्निहितत्वात् ।
नियतेरेवेति चेन्न, आनर्थक्यात्, इह तु नियत्यानर्थक्यमेव, पूर्वादिभिरेव कृतप्रयोजनत्वात् किं नियत्या ? यत्पूर्वं तद्वीजादि