SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे यत्पश्चात्तदङ्मुरादीत्येवमादिविकल्पव्यवहारेषु कालएव भवतीति भावितम्। सर्वसङ्ग्रहेणैव वा पूर्वापरयोः कारणकार्यत्वात् कालत्वाच्च नियतेरेवासिद्धेर्व्यवहारासिद्धिरन्यथा, पूर्वादिषु तु समाश्रितेषु नियत्या किं क्रियते? ___ त्वन्यायेन तु हिताहितप्राप्तिप्रतिषेधार्थाचारोपदेशावनर्थको, चलरूपग्रहणनियतिवत्, नियत्या सिद्धयत्स्वसिद्धयत्सु वा किं यत्नोपदेशाभ्याम्? अयत्नत एव तथा सिद्धेः। यत्रोऽपि नियतित एव चेत् सर्वलोकशास्त्रारम्भप्रयोजनाभिधानानर्थक्याल्लोकागमविरोधौ, भावस्यान्यथाभावाभावात्। क्रियात एवौदनतृप्त्यादिफलप्रसूतेश्च प्रत्यक्षविरोधः, एवं नियतेरेवैवमिति चेन्न, कालानन्तरक्रियाया एवैवंक्रियानियतिरिति संज्ञामात्रे विसंवादात्, एवमपि क्रियासिद्धौ कालासिद्धिरिति, न कालानर्थान्तरत्वात् क्रियायाः। नियतिप्रतिपादनपरिक्लेशाभ्युपगमाच नावश्यम्भावाव्यभिचारिदर्शनविपर्ययार्थप्रवृत्तेरभ्युपगमविरोधः, स्ववचनपक्षधर्मत्वादीनां प्रवृत्त्यैव निराकरणं प्रमाणमन्तरेणापीति। अतः इयं भावनोच्यते, धर्मार्थकाममोक्षाः कालकृताः एवं चतुर्वर्गसाध्यसाधनसम्बन्धार्थाः सर्वशास्त्रारम्भाः कालसामर्थ्यादेव सफलाः, उक्तभावनावत्।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy