________________
द्वितीयो विधिविध्यरः ।
यथा ब्राह्मणस्य वसन्तेऽग्न्याधानं, वणिजां मद्यस्य, क्रीडादीनाम्, निष्क्रमणमित्यादि यावद्विमोक्षं यतीनाम् ।
पायोपजनविकार्यनुत्पत्त्यवृद्धयव्यययोगीत्यादिनित्यलक्षणं कालस्वरूपतदात्मकत्वभावेनैव वर्त्तते ।
अनियतचेतनाचेतनत्वपरिणतिवशाज्जीवपुद्गलानामनाद्यनन्त
वर्त्तनात्मस्वतत्त्वानां वृत्तेः कलनात्मकं रूपं भूयो भूयो विपरिवर्त्त - तेऽतोऽतीतानागतवर्त्तमानवर्त्तनात्मकमेकं
कूटस्थमविचाल्यनकलनं
९१
तच्च
ईश्वराणां
द्विविधमस्मदाद्यसर्वज्ञं प्रत्यनुमानमात्रगम्यमविविक्तमुद्देशतोऽतीतानागतवर्त्तमानवर्त्तनाकलनम्, अमितपूर्णकोष्ठागारधान्यकलनवत्, सर्वज्ञं प्रति परमनिरुद्धे काले समये समये वृत्तविविक्तवर्त्तनासङ्ख्यानं कालः ।
भ
स तथाभूतेन कलनार्थेन तां वर्त्तनामेव सामान्यामत्यजन् भूतो भवति भविष्यंश्चेति विशेषव्यपदेशं लभते नान्यः कश्चिनियत्यादिः, असत्त्वात्, अन्यथाऽन्यस्याभावात्, यथा कुसुमं खपुष्पं न भवति घटो वा पटतया, तदेव तद्भवति तदेव चान्यथाऽपि भवति, कारणभेदेनापि स एव तथा कलयन् वर्त्तनेन कल्पते तेन च तस्मै चेत्यादि ।
एवमेव च स वर्त्तमानातीतयोः कारणावस्थयोरेव कार्यस्याभि - मुख्येन गृह्यते, यथासङ्खयमेकत्र पटादिरेकत्र मेघादिः ।
ग्रहणवच्च स एव क्रियते तथावृत्तेः क्रियया कल्पत इि नाममात्रेणैव भेदात्, तयोरप्यनागते कार्येऽतीतवर्त्तमानयोः