________________
९२
द्वादशारनयचक्रे
कारणाख्याभिमुख्येन कार्याख्याभिमुख्यकारणैक्यवद्ग्रहणकरणयोः समानता दृश्यते, यथा संयोगतत्वाद्युदकगर्भसर्जनपाचनादिवर्त्तनपटत्ववत् ।
अत एव च कलनमेवैकं कार्यकारणवृत्तित्वेन विपरिवर्त्तितुं क्षममपुरुषकारमस्वभावमनियतञ्च, संसारस्यात एवानादिकालवृत्तेरेव हेतोः पुरुषवायुक्तं सर्वमस्माद्भवति, पुरुषवायुक्तमुक्तिक्रमार्थतुरीयवचनादेव कालस्य समर्थितत्वात् ।
वृत्तिक्रमापादितकार्यकारणावस्थयोः कार्यकारणभावोपपत्तेमिथ्यादर्शनादिसामान्यविशेषहेतुभिः कर्मबन्धप्रक्रियोपपत्तेः संसारानादिता, तस्य तु परमात्मनो न युज्यते संसारो बन्धाभावात्, बन्धाभावः प्रदोषादिकारणाभावात्, प्रदोषाभावः कर्माभावात् कर्माभावोऽ शरीरत्वादकारणत्वाच्च ।
नापि तस्य नियतेः संसारानादिता, अतत्त्वात्, कचि - दुपरमाभ्युपगमात्, यद्यन्न तन्न तन्नियतेर्दृष्टम्, घटपटवदिति, एवमेव तस्य`स्वभावादित्येतन्न अतत्त्वात्, यद्यदेतन्न तत्तन्न तत्स्वभावात्, घटपटवदिति ।
तस्मात्त्वनादिवर्त्तनात्मकत्वात् कालस्यैतदुपपद्यते, तद्यथा पृथिव्यादिव्रीह्यादिवृत्तिविवृत्तिप्रबन्धेनाऽऽत्मस्वरूपविषया क्रिया बन्धः स्त्रिग्धरूक्षतया तेषां संश्लेषादन्यान्यरूपापत्तिः संसरणं, तच्चानादियुगपदुभयबन्धनात् तथा जीवपुद्गलयोरभिन्नवर्त्तन