________________
द्वितीयो विधिविध्यरः ।
स्वतत्त्वयोः स्वसाध्येभ्य एव साधनात्मभ्यः स्वत एव बन्धक्रिया संसारक्रिया च वर्त्तनाभेदेन रूपभेदेन च, एवं कालस्यात्मस्वात्मन्येव क्रियाऽनात्मस्वात्मनि च युगपदेव बन्धसंसरणविहिता संसारानादिता युगपदभिन्नाऽनादिवृत्त्यात्मिका न न युज्यते ।
९३
इत्यनादितावर्त्तनाप्रभेदा एव भावान्तराणि क्रमेण प्राप्ताः भूम्यम्ब्बादियोगबीजोद्भेदमूलाङ्कुरपत्रनालकाण्डपुष्पफलशूककणतुष
व्रीहिकुरुकतन्दुलोदनरूपा ओदनादप्यभ्यवहृताद्रसरुधिरमांसकलेवर
मृन्मृत्पिण्डशिबकस्तूपकछत्रकस्थालककोशककुशूलघटकपालशर्करिकापांशुधूलिरजोभूम्यादित्वेन परमाणुद्व्यणुकादिसङ्घाता आरम्भप्रवृत्तिनिष्ठा उत्पत्तिस्थितिभङ्गा अपि वर्त्तनात्मान एव ।
ननु कृषीवलादिभिरपि तथा तथा पर्युपास्यते, आविर्भूतश्रुताङ्कुरकालो न तावद्यवाङ्कुरकाल इत्याविर्भूतानाविर्भूतात्मा कालः ।
तस्मादेव च च वर्त्तनालक्षणादवगमितद्रव्यक्षेत्रभावात्मनः कालात् परमनिरुद्धसमयत्वेनाभिन्नादपि सुषमादिभेदात्मकाद्भावभेदाः सम्भवन्ति, स एष पुनरनुभावः कालस्य प्रभुविभुत्वाभ्याम् । एकसमायामपि भावभेदाः संवत्सरवर्त्तनात् संवत्सरे मासवर्त्तनात्, मासे दिनवर्त्तनात् दिने मुहूर्त्तवर्त्तनात्, मुहूर्त्ते लग्नवर्त्तनादेवं नालिकायवादिभेदेन च भावभेदा नेया यावत् परमनिरुद्धसमयवर्त्तनेति, एकस्मिन्नन्यथेति चेन्न, कालदोषभावात् ।
तस्मादेव मुहूर्त्तजातानामपि पुरुषाणां तन्मात्रभेदप्रभेदस्वामि भृत्यादिभावभेदा अनुमातव्या धूमादग्निवत् । तस्यैव च व्यापित्वात्,