________________
द्वितीयो विधिविध्यरः।
तथा चाऽऽम्रबीजे तथानियत्या लीनानां मूलाङ्कुरादीनां फलस्य वर्णानां रसानाञ्च तेषां तेषां व्यवस्थितपूर्वरूपैव प्रवृत्तिर्मायाकारपताकिकावत्, यावदानं नियतिप्रवृत्तिफलावस्थामनुभूय पुनबीजमेव तस्मादपि पुनरपि तथेति, सेयं व्यवस्थिता नियतिसन्ततिरनाद्यनन्ता।
दाहनियत्युदयेऽपि यवतिलभस्मादीनां तास्तथा तथा प्रादुर्भावतिरोभाववृत्तयः प्रतिनियता एवान्यथा च । ताच पुरुषकारमप्युल्लङ्घ्य तमन्तरेण सिद्धाः, पाककालस्यापि नियतिदर्शनात्, यथा षष्टिकाः षष्टिरात्रेण पच्यन्त इत्यादि । एवञ्च व्यवस्थितनियतार्थव्यक्तेर्व्यतिरिक्तमतिः पुरुषस्य मिथ्याभिमान एव, न तु नियतौ हि किश्चिन्नास्ति।
कथमस्ति सर्वं नियतौ? यथा भूम्यम्ब्वादेविना न भवति केवलाया एव बीजनियतेराम्रफलपाकादि, कालातपवातादिभ्यो हि पाकः, तथाऽकालेऽपि भूमिखननादिभ्यः काले वापि न भवति पाको द्रव्यान्तरसंयोगादिना स्तम्भितायां शाखायाम्, द्रावणाद्वा । अन्यच्च तथातथा तस्य ज्ञातुरिच्छानुविधानेन वस्तुनियतिवैपरीत्यमिति नियमाभावात् कृतकत्वाच्चानित्यत्वं ताभ्याञ्च नियत्यभाव इति।
न, तथानियतित्वात्, बीजादिनियतिरेव ख़ुदकादिषु वर्तते उदकादिनियतिश्च बीजादिष्वन्योऽन्यव्यतिहारेण, तन्नियमानुरोधेन हि तेषां सर्वेषां नित्यप्रवृत्तिरन्योऽन्याविनाभावात्, तथा ह्याह-- उदकं पतितं सभावकं निर्भावकञ्च, यदा हि बीजनियतिरखरायभि