________________
द्वादशारनयचक्रे
एतच्च साध्यमानमप्यन्यविषयक्रियाविलक्षणयानयैव क्रियया साध्यते, एतस्याश्चैतान्येव कारकाणीति साध्यसाधनार्थनियतिः । एवञ्चार्थगतप्रतिविशिष्टसाध्यसाधननियमाभिव्यङ्गयनियतिस्थितेरेव कारणगुणपूर्वकतां कार्यस्य प्रतिपद्य कारकान्तरसमवस्थितितुल्यतायामपि क्रियासमवस्थित्या सह नियतिप्रसिद्धेरेव पुरुषस्तथा प्रतिपद्य प्रत्यर्थं कारकाणि प्रयुक्ते तानि च यथाप्रयोगनियमं स्वे स्वे विषये नियतानि नैकविमर्दप्रवृत्तानि परस्परनियतानुग्रहोद्भावनवृत्तानि स्वविषयक्रियाप्रसाध्यमर्थमभिनिर्वर्त्तयन्ति तेषां वृत्तिस्तानि तत्फलञ्च सर्वं नियतमेव, ततो नियतिरेव सर्वस्य कारणम्, न तु तदुपायसिद्धेरन्यथा तत्सिद्धिरस्ति ।
,
८६
सिद्धिर्हि नियमेनानुद्गतानां रूपादीनां साङ्गत्येन स्थितानां स्वनियतेरेवाऽभिव्यक्तिर्जनिर्वा, तत्र मिथ्याभिमान इदं मया कृतमिति पुरुषस्य । तच्च च तानि च नियतेरेव प्रवर्त्तन्ते, तत्प्रवृत्त्यप्रवृत्त्योः सिद्ध्यसिद्ध्योश्च व्यभिचारदर्शनात्, तथा च दृश्यन्ते क्रियाणां विपत्तयोऽप्रवृत्तयश्चातस्तत् कृतमपि पूर्वनियतिस्थत्वादकृतम्, विनष्टमप्यविनष्टं तथानियत्योत्तरकालं कपालादित्वेनावस्थितत्वात् ।
एवन्तु विनश्येत्, यदि प्रविशीर्णस्तां नापद्यते खरविषाणबदत्यन्ताभावी भवेन्न वा विनश्येत् घटत्वेनैव तिष्ठेत्, न त्वेवम्, तस्मान्नाविनाशः, लक्षणतो ह्यन्यथाभावो विनाशः, स च नियतेरलङ्घयत्वात्, एवमुत्पत्तिरपि ।