________________
द्वितीयो विधिविध्यरः।
अनेकस्मिंश्च पृथिव्यम्बुतेजोवाय्वादिस्वरूपेऽर्थे पृथिव्यादीनामेव तद्भावापत्ते/हिरित्येकत्वादभेदा । तथातथाऽनियतार्थवशादनियतिकारणत्वं, दृष्टं हि प्रसवादिवैकृतं नरतिरश्चां इति चेन्न। अत्रापि तथानियतिवशेनैव प्रसवादिधर्मव्यतिक्रमो वस्तुस्वभावव्यति -क्रमश्वोपलभ्यते।
नियतिवशादेव किश्चित्सदसाध्यं, असदसाध्यं, असत्साध्यं, सत्साध्यञ्च प्रतिपद्यते, सदपि चाकाशं भूगन्धवदनभिभवं सलिलसेचनेन सन्तमसस्थघटवत्प्रदीपेन चासाध्यम्।
वन्ध्यापुत्रादि असदसाध्यम्, इदन्तु नियतिवशादेवासत्त्वात्, नियत्यैव नासत् साध्यतामर्हति, साधनाविष्टक्रियासाध्यत्वात्साध्यानाम्, क्रिया हि साधनेषु वर्तमाना सन्तमर्थसाध्यमाविशति प्रत्यर्थनियतत्वात् साधनानुषङ्गस्य, साध्याभावात्तु सा किमाविशतु? ।
इदं पुनरसत्साध्यं घटादि, यद्यसत् कथं साध्यं खपुष्पवत्? उक्तासदसाध्यविकल्पानतिवृत्तेश्चेति, नैष दोषः, सतोऽन्यदसदित्यतोऽन्यत्र विधानप्रतिषेधाश्रयणात्, प्राक् तथाऽवृत्तं तत्काले व्यक्त्या नियतं साध्यम्। .
इदमन्यत् सततोपलब्धिनियतमेव सत् यष्टिसाधनवजुत्वेन साध्यते मृद्रव्यमूर्खादित्वक्रमापायघटत्वेन वा, ऊर्ध्वादित्वं घटत्वञ्च भेदेनैव वा सत्साध्यम् । अथवा भेदेनैव सत्साध्यम्, .. यदुद्धयैव साध्यते न क्रियया, पुरुषादि किन्तु विद्यमानं अवस्थापरिग्रहापनयनेन।