________________
८४
द्वादशारनयचक्रे
कथं परमार्थतो नास्ति भेदो भेदबुद्धयाभासभावेऽस्याः? अथवा परमार्थतस्तु भेद एवास्तु सत्यप्यभेदबुद्धयाभासभावे? इति, कथं परमार्थतोऽभेदा? अभेदबुद्धयाभासभावेऽप्यभेदाभ्यनुज्ञानात्, कथमभेदः? भेदबुद्धयाभासभेदेऽप्यभेदाभ्यनुज्ञानादेव । द्विधापि चाभेदस्याभ्यनुज्ञानादेवाभेदा सेति गृह्यताम्, व्यवच्छिन्नस्थाणुपुरुषत्ववत्।
सा च नियतिरसा च, इह च स्वर्गादिषु च तथानियतेरासन्नानासन्ना च, तस्या एव तदतदासन्नानासन्ननानावस्थद्रव्यदेशादि प्रतिबन्धभेदात्, मेघगर्भवत्, 'तस्मान्नाभाविभावो न च भाविनाशः' इति। ___ न कालादयं विचित्रो नियमः, वर्षारात्रादिष्वपि कचिदनियत प्रवृत्तेः, दृश्यते ह्यङ्गुरकिसलयपत्रपुष्पफलगर्भप्रसवादिव्यभिचारो वनस्पतिसत्त्वादीनां स्वतः प्रयोगतश्च । न च स्वभावात्, बालादिकाल एव युवतादियुगपदभावे भेदक्रमनियतावस्थोत्पत्तिस्थितिच्युतिदर्शनात्, तत्तथा नियतिवस्तु, तदनभ्युपगमे सर्वाविवेके अवस्थास्वभावाद्यभावादभ्युपगमविरोधस्ते . जायते, तद्धि न नियतेरन्यतोऽवतिष्ठते।
___ यथा लोक एकत्व एव पर्वतायाकारावग्रहो भियते यथा वा ज्ञानमेकत्वेऽप्यनेकबोध्याकारं भवति, अन्यथा घटपटाद्याकारमन्तरेण ज्ञानात्मलाभाभावात्, एवं भेदाभेदरूपेण नियतिः । तथा नियमात्मकत्वात् सा नियति/हिरित्येकस्मिन् वस्तुन्येका मूलादिभेदे च भिन्नाऽमुरादिर्भवति।