________________
द्वितीयो विधिविध्यरः।
८१
ब्रीह्यादिरम्ब्वादिश्चैक एव, कालान्तरावस्थाने सति तत्परिणामोपपत्तेः सामान्यान्वयाबीह्यादय उदकादय एव वा मृद्भवति घटो भवतीत्यादि युज्यते, परतोऽपि कपालादिपांशुव्रीह्यादिभूतेः, तस्माद्धटादि सर्वात्मकमेव भवति । न चेदेतदिष्यते तत एवं सर्वात्मकस्यैकस्य सत्त्वस्याभावात् प्रत्येकं सत्त्वस्य च देशतः कालत इतरेतरासत्त्वात्मकत्वात् कुतो भवनं भवितुर्घटादेः।
यथा तु यैः रूपादिभेदेन घटो देशभेदाद्यावनिरुपाख्यशः कालभेदेन च परमनिरुद्धक्षणोत्पत्तिनिरुपाख्यशो भिद्यत इति सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेवेति व्यवस्थाप्यते तैरस्मदुपवर्णनवदेवाभिहितं भवति, रूपादिपरस्परविविक्तत्वे तु तद्विज्ञानान्वयाभावाद्रूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञानमात्रता न भवति।
ज्ञानस्यापि त्वभावाभ्युपगमे रूपाद्यपलापबीजनिरूपणादिनिर्मूलत्वात् प्रत्यक्षादिविरोधः, तस्मादवश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्त्तमानोऽवस्थितः कारणमिति सिद्धम्, अत एवोक्तवत् रूपादीनां तत्त्वात् ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् सर्वत्र सन्निपत्यारादूरादुपकारित्वेभ्यो हेतुभ्यः आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्तिर्भवतीत्येष विशेषः।
आह च पुरुष एवेदमित्यादि।
अत एव सर्वत्वसिद्धिस्तस्य, तया चाऽऽत्मा सत्त्वं भूतः पुरुषः पुद्गलो जन्तुः प्राणी जीव इत्याद्यभिख्या घटन्ते