SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे भ्रम्यते, तेन सूक्ष्मस्थूलरूपादिपृथिव्यादिमत्त्वमनाद्यनन्तशः प्रतिपद्यते चैतन्यम् कार्यात्मत्वात्, क्रमेण मृद्धटकपालादि यावद्रूपादयो व्युत्क्रमेण रूपादि यावद्द्व्यादित्वविपरिवर्तानन्त्यवत् । एवंप्रकारस्य भवनस्य देशकालभेदैकान्ताभ्युपगमे वक्ष्यमाणदोषत्वात्। नन्वेवमनाद्यनन्तत्वे सति कुक्कुटयण्डकयोरिव मुक्तस्यापि चैतन्यरूपादिमत्त्वयोस्तुल्येऽविवेके किमर्थं ज्ञानात्मकमित्युच्यते? किं वाकारणं रूपादिमदात्मकमिति नोच्यते सर्वम्? नैवं परिग्रहेऽपि कश्चिद्दोषः, अस्यैवार्थस्य सिषाधयिषितत्वात्, चतुरवस्थत्वात्तस्य, तत एव रूपादिद्रव्येन्द्रियपृथिव्यादिरूपः स एवोच्यते । चेतनाचेतनयोरैक्यापादनप्रस्तुतेः, ञमयञ्चेदं स एव स्वतन्त्रो भवतीति विशिष्य ज्ञग्रहणं स्वतन्त्रग्रहणश्च किमर्थमिति चेदुच्यते, तथाहि, भावस्वरूप दर्शनार्थन्तु यो भवति स वाच्य इति ज्ञग्रहणम्, तदपि भवनं ज्ञस्यैव सर्वदेशकालात्मकस्य देशकालाभ्यां सिद्धयति, तथाहि वस्तु भवतीति वक्तुं शक्यम्, तद्भिन्नपृथिव्यादिभेदभूतपदार्थपरिग्रहे तु घटभवनं न सिद्धयति। देशभेदप्रत्ययेन तावद्गीवापृष्ठकुक्षिबुध्नौष्ठादीनां देशभिन्नानां कपालशकलादीनाञ्च यावत् परमाणुशो रूपादिशो निरुपाख्यत्वशश्च भेदादभावे । एवं न श्वेतिकापीतिकायेकदेशभेदान्मृत्, अश्मादिभेदान्न पृथिवी, पृथिव्यप्तेजोवाय्वादिभेदान्न द्रव्यं गुणकर्मभेदाद्वा द्रव्यादिभेदान्नैकं सत्त्वमिति । कालभेदप्रत्ययेनापि प्रतिक्षणमव्यपदेश्य भवनात् कतरत् घटभवनम्? मृद्भूतव्रीह्याद्यम्ब्वादिकालभिन्नभावभेदे मृदभावात् को घटः? भवनं वा किं स्यात्? अस्मन्मतेन मुद्भूतो
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy