SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विधिविध्यरः। करणमपि ज्ञानविवर्त्तत्वात्, यथा चेदं ज्ञानं तथा जाग्रदवस्था। शेषः सुप्तावस्था ज्ञानमेव, संशयादीषत्सुप्ततापि करणात्मा। सा च सुप्तावस्थापि सती ज्ञानमेव, वस्तुनस्तथातथा तत्त्वात् स्थाणुः स्यात्, पुरुषः स्यादित्यूर्ध्वतासामान्यस्य वस्तुत्वात् । तथा विपर्ययोऽपि ज्ञानमेव, तथातत्त्वादर्थस्य स्थाणुत्वपुरुषत्वाभ्यां विपर्ययेण च, तथाऽनध्यवसायोऽपि ज्ञानमेव, चेतनाचेतनात्मकत्वाज्जागरितवत्, तदेव हि चेतनाचेतनम्, चेतनाया एवाचेतनात्वाद्वा संशयादिवज्ज्ञानमेवानध्यवसायः, अथवा सुप्तवदनध्यवसायोऽपि करणात्मैव व्यक्ततरः स्वापः। यथा चैतच्चैतन्यं तथाऽनध्यवसायं द्रव्येन्द्रियपृथिव्यादि कार्यात्मा, सा च सुषुप्तावस्था द्रव्येन्द्रियम्, तदपि ज्ञानात्मकमेव, सुषुप्तावस्थात्मकत्वात्, हालाहलानुविद्धमदिरापानापादितनिद्रासुषुप्तवत्, अथवाऽनध्यवसायवत्। योऽसौ पुरुषस्तदेव तत्, आत्मत्वेन परिणामितत्वात् तद्र्व्यत्वात्, भूम्यबादिव्रीहित्ववत्, यथा भूम्यम्ब्वायेव व्रीहित्वेन परिणतत्वात्तद्रव्यत्वाव्रीहिर्भूम्यादिरेव तथा पृथिव्यादिपुरुष एव चेतनात्मकः, तेत्कार्यत्वात्तन्तुपटवत्, तद्व्यतिरेकेणाभावात् तद्देशत्वाच्च घटस्वतत्त्वप्रत्ययादित्ववत्।। ___ चैतन्यादात्मा सुषुप्तावस्थाया विपर्ययेण वृत्तो रागाधुपयुक्त उपयोगस्वातन्त्र्येण बद्ध्वाऽऽत्मनाऽऽत्मानमस्वतन्त्रीकरोति, मद्येनेव स्वयं पीतेन मद्यपः स्वयं पूरितवेगया डोलयेव वा पुरुषो
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy