________________
७८
द्वादशारनयचक्रे
___ सुखदुःखमोहशुद्धयः सत्त्वरजस्तमोविमुक्त्याख्याः, कार्याणि चासां यथासङ्ख्यं तिसृणाम्, तद्यथा प्रसादलाघवप्रसवाभिष्वङ्गोद्धर्षप्रीतयः, दुःखशोषतापभेदापस्तम्भोद्वेगापद्वेषाः, वरणसदनापध्वंसनबीभत्सदैन्यगौरवाणि । चतुर्थ्यास्तु शुद्धं चैतन्यं सकलस्वपरिवर्त -प्रपञ्चसर्वभावावभासनम् । अथवा ऊर्ध्वतिर्यगधोलोका अविभागा वा, संश्यसंड्यचेतनभावा वा। __अविभागात्मनस्तस्यैव चतुरवस्थत्वात् कालभेदाभावाच्च चतम्रोऽपि स्युः, न, नियता एव ह्येता विमुक्तिक्रमात्, तत् पुनः तुरीयं निरावरणमोहविघ्नं निद्रावियोग आत्यन्तिको निद्रासम्बन्धिजाग्रदाद्यवस्थाविलक्षणमात्मस्वतत्त्वं स एव परमात्मा विमुक्तः सर्वज्ञो व्याख्यातः। ___तत्र तावन्महामोहनिद्राक्षयोपशमलब्धिजनितनिर्वृत्त्युपकरणेन्द्रियप्रत्ययं चैतन्यं जायते तच्च प्रत्यक्षादि, प्रत्यवेक्षणात्मकत्वाज्जाग्रदवस्था, सैव करणात्मा, सा चापि चेतनात्मैव, द्रव्यपुरुषवत् । यथानुपयुक्तः पुरुषो नात्मत्वेन परिणमितो द्रव्यपुरुषस्तथा करणात्मापि चेतनात्मैव। .
एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाच्च तस्य करणात्मावस्थानुपपत्तिरिति चेन्न चैतन्यस्य सर्वात्मकतायामपि सत्यां निद्राग्रहणात् सुप्तोत्थितस्य सावशेषनिद्रस्येव यज्ज्ञानं सा जागरावस्था करणात्मा, व्यपगतनिद्रस्येव सर्वज्ञावस्थेत्यनयोविशेषः, अर्थस्वरूपाग्रहणात् करणात्मावस्थायाः परमात्मना वैरूप्यमित्येतच्चायुक्तम्, अर्थस्य च तथातथातत्त्वात् ज्ञानमेव ह्यर्थः,