SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ৩৩ द्वितीयो विधिविध्यरः। वक्तृत्वादेव तत्सिद्धेः, नित्यानुमेयमहापरिमाणाकाशदृष्टान्तसाधाच्च । असर्वातथ्याभिधायिताभ्यां विपर्ययेण भवितव्यमवस्थात्वात्, ज्ञत्वाज्ञत्वावस्थावत्, नीलोत्पलरक्तोत्पलवत्। धूमवत्त्वाग्निमत्त्वावस्थाविपर्ययेणापि तर्हि भवितव्यं तत्त्वतः, को विचारः? निश्चितमेवैतत्तेनापि तत्त्वतो भवितव्यम्, नन्विदमेव वर्त्तते, तेन तु यदुच्यते तत्प्रमाणं सोऽपि शब्दो न पुरुषप्रवृत्तिमन्तरेण भवितुं वक्तुं वाऽर्हतीति उक्तत्वाद्वचनत्वाद्वस्तुत्वादपि व्याकरणवत् पौरुषेयम्, इतरथा स नैव वचनं स्यादपौरुषेयत्वाद्वन्ध्यापुत्रवत्। नन्वेकस्मिन्नेव काले तस्यैव वस्तुनोऽग्नित्वमनग्नित्वञ्चेति प्रत्यक्षादिविरुद्धं सामस्त्येनाभावात्, न, ननु प्रत्यक्षत एव ब्रीह्याद्येकं वस्त्वेकस्मिन्नेव काले भूम्यबादिसर्वात्मकम् तेन विनाऽभावात् तस्य तथाभवनात् व्रीहिस्वात्मवत्, कतमोऽसौ व्रीहिः क्षित्युदकबीजादिगतवर्णगन्धरसस्पर्शादिधर्मपरिणतिमन्तरेण? इति। तत्काले तथाऽग्रहणादप्रत्यक्षतेति चेत् सर्वाप्रत्यक्षता तर्हि, कदापि सर्वेण ग्रहणाभावात्, न हि यद्यथा भवति तथेन्द्रियेण गृह्यते, तुषकणादिरूपादिमात्रग्रहणवृत्तत्वाद् बीह्यादिचाक्षुषप्रत्यक्षस्य। रूपस्य रूपमात्रत्वात्तर्हि प्रत्यक्षत्वमित्येतच्चायुक्तम्, यावद्रूपग्रहणावृत्तत्वाद्रूपादिप्रत्यक्षस्य, तस्मात्, स्थितमेतत् सर्वं सर्वात्मकं ज्ञानस्वतत्त्वैककारणविजृम्भितमात्रश्चेति । तस्य चतस्रोऽवस्था जाग्रत्सुप्तसुषुप्ततुरीयान्वर्थाख्याः एताश्च बहुधा व्यवतिष्ठन्ते।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy