________________
द्वादशारनयचक्रे
एवं तर्हि रूपेणाविभक्ततत्त्वात्मकानां रूपवदविभक्तग्रहणं चक्षुषैव स्यात् रसनादिभिश्व ग्रहणदर्शनात् प्रत्यक्षविरुद्धेयं कल्पनेति चेन्न, तस्य तत्त्वस्यानेकात्मत्वाभ्युपगमात् । द्विधापि रूपस्याविभक्ततत्त्वात्मकतायामपि शक्यं वक्तुं रूपं रस इति प्रत्यक्षम्, भेदेन दर्शनात्, तस्यानेकात्मकस्य स्वप्रवृत्तिप्रभावावबद्धस्य प्रभेदानामुक्तत्वात्, रूपादिभ्यो भिन्नमेकं द्रव्यं पृथग्ग्रहणापदेशादित्येतच्च न, रूपादिव्यतिरिक्तादर्शनात् ।
७६
आत्मतत्त्वाविभक्तत्वग्रहे तु प्रत्यक्षाविरोधः, चैतन्यमेकमेव रूपादिविभक्तमप्यविभक्तं चैतन्याव्यवच्छेदान्वयात्, यथा परैः परिकल्पितं भिन्नमिति तत्र दर्शनं विरोधकारि भवति ।
तदनुभवदर्शनात् स एव तु ग्राह्यो ग्राहकचैषितव्यः, व्यतिरेकस्यानुपपत्तेः, अभिमतात्मप्रतिपत्तिवत् बुद्धयादिरूपादिसूक्ष्मस्थूलत्वादि च क्षीरायत्यन्तापरिदृष्टास्तत्त्व एव धर्माः व्यवस्थिताः, तद्वत्सर्वस्य जगतश्चेतनात्मनि पुरुषे व्यवस्था युगपदेव ।
एवञ्च सार्वज्ञ्यमप्ययत्नेन लब्धं पुरुषात्मकत्वात् सर्वस्य, अस्य ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तं सर्वज्ञता, तन्निरतिशयं कचित् प्राप्नोति, तारतम्ययुक्तत्वात्, पर्वतोन्नतिवत्, क्षेत्रप्रमाणवत्, प्रत्यवगमात्म - कत्वात् खद्योतादितारतम्यवृत्तोद्द्योतवत् ।
ननु वक्तृत्वादीनां धर्माणामसार्वज्ञ्याव्यभिचारात्, अत्रैव प्रकर्षोत्कर्षदर्शनाच्चासर्वज्ञतैवेत्येतच्च न, वक्तृत्वस्यापि तारतम्या - दुत्कर्षवृत्तेर्निरतिशयनिष्ठत्वात्, सर्वस्य वक्ता तथ्यस्य चेति