________________
द्वितीयो विधिविध्यरः।
भ्रान्तिवच्च ज्ञशेषं सर्वम्, इतरथाऽसौ नैव स्याद्भवितुरभावाद्वन्ध्यापुत्रवत्।
अचेतनानामप्यभ्रादीनां चेष्टादर्शनाज्ज्ञप्रयोगमन्तरेण प्रवृत्तिदण्डादीनामित्येतच्चायुक्तम्, शस्यैव सुप्तावस्थत्वात्, न च चक्रदण्डादि सुप्तावस्था करणनिरीहत्वात्स्वत एव भवति, दधीव पयसः । एतेन दध्यायपि ज्ञभवनमाख्यातमेव, बशेषसुप्तावस्थात्वात्।
यथैव हि रूपरसगन्धस्पर्शशब्दा अमूर्त्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एव स्वप्रवृत्तिप्रभावावबद्धमूर्तत्वप्रक्रमानध्यास्य ततो नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते रूपादय एव, न हि ते रूपादयः प्रतिनियतचक्षुरादिविज्ञान प्रभावितस्वरूपा मूर्ताः स्थूला वा।
यथैते सूक्ष्मा मूर्तरूपादिपूर्वकाः स्थूलत्वात्, तन्तुपूर्वपटवत्, एवं ततोऽपि परं परतोऽप्यपरं वरिष्ठं कारणं रूपादिभावमापद्यत इति प्रतिपत्तव्यम्।
इति रूपादिप्रविभक्तमप्रविभक्तस्वतत्त्वं यद्भवति तदेव स्वं तत्त्वं तत्तु ज्ञानस्वतत्त्व आत्मेति रूपादिभिरेव निरूपितम्, तद्धि रूपणमिति रूपणकृतात्मलाभनिरुक्तत्वात् विभक्ताविभक्तं ग्रहणमेव रूपम्, न तु रूप्यते तत्तेन तस्मिन् वेत्यादि रूपम्।
रस्यते स्पृश्यत इत्यादेरपि तत्रैव दर्शनात्, रूपेणोपलक्षितस्य ज्ञानात्मनो रसादेर्गुणाद्गुणिद्रव्याद्वा विभक्तस्यानवस्थानात् पुरुषभिन्नपुत्रत्वादिवत्।