________________
७४
द्वादशारनयचक्रे
भवतीति भावो घटादिरिति समर्थितः, विविच्यते च सादृश्यासादृश्याभ्याम्, सा पुनरविविक्तैव, को ह वैतद्वेद? किं वाऽनेन ज्ञातेन? इति वचनात्,
स एष विधिविधिन भवति, अविविच्यमानार्थविधानात्, स्ववचनविरोधात्, अंशेन विवेकाच्च, विविच्यमानांशोऽपि च तद्विविच्यते, न स विविच्यते तथा न भवत्येव विधित्वं विधेः, किं न एतेन यदि कारणमित्याद्यविचार्य लोकवद्विधानात्।
यदुत्सृष्टतया विधिः सिद्धयति लोके यथा तत्तथाऽन्यथा च भवति तथा वक्तव्यमिति विधिविधिर्भवत्पविवक्षितव्यावृत्तिरनङ्गीकृतभेदः। अथ पुरुषवादः
पुरुषो हि ज्ञाता ज्ञानमयस्तन्मयश्चेदं सर्वं जगत्, तदेकत्वात्, स एव भवतीति भावः, सामान्यम्, को भवति? यः कर्ता, कः कर्ता? यः स्वतन्त्रः, कः स्वतन्त्रः? यो ज्ञः, काष्ठादिविप्रकीर्णपचननिर्वर्तनवत्।
ननु क्षीररसादि दध्यादेः कर्तृ, न च तत्क्षीरं रसो वा ज्ञ इति, न, तत्प्रवृत्तिशेषत्वात्, गोप्रवृत्तिशेषक्षीरदधित्ववत्, शशेषत्वाद्वा चक्रभ्रान्तिवत्।
ननु चक्रभ्रान्तावपि को भवितेति प्रत्यपेक्षायां घटभवनव्यवहारे मृद्वदिहापि मूलभवितृ द्रव्यमपेक्ष्यम्, परतः परतोऽपियेन भूयते यद्भवति तदेव मौलम्, तस्माद्धटभवनमृद्वत् कुलालशेष