________________
द्वितीयो विधिविध्यरः।
अत एवेतिकर्त्तव्यतैव कर्त्तव्यतेति प्रतिपादनार्थं न क्रियायां खेदः कर्त्तव्यो भवति, सामान्यादिवस्तुविचारखेदस्याव्यवस्थितपरमार्थत्वात्, क्रियाया एवोपदेशो न्याय्य इत्यस्याभ्युपगमस्योपरोधात्।
___ अज्ञानप्रतिबद्धैकान्तेऽपि च ज्ञानप्रतिबद्धत्वे स्ववचनविरोधः, एतदेवमित्यवगमादभ्युपगमविरोधः, लोके ज्ञानव्यवहारात्तद्विरोधः, प्रमाणविरोधस्तु प्रस्तुत एव, धर्मविशेषविपर्ययसिद्धेर्विशेषविरोधः, धर्मस्वरूपस्य निराकरणाद्धर्मस्वरूपविरोध इति।
अतः पूर्वोदितदोषासम्बन्धेनेदं प्रतिपत्तव्यमात्मैव सामान्यमिति, ननु पूर्व दूषितमेवैतन्मतमात्मैव सामान्यमिति, न आत्मशब्दस्य पुरुषपर्यायत्वात् सामान्यं पुरि शयनात् पुरुषः, विशेषास्तु तस्यैवावस्थावतोऽवस्थाः जाग्रत्सुप्तसुषुप्ततुरीयाख्याः, घटग्रीवादिरूपादिनवादिभेदाभेदसमवस्थावत्, एवं च सर्वसर्वात्मकत्वसत्कार्यत्वमूलरहस्यानतिक्रमेण कल्पितमिति गुणधात्र विद्यते।
अविचारोऽपि चानेनैव तत्त्वेनैक्यमाश्रित्य न्याय्यो नाज्ञानप्रतिबन्धात्, इह तु ज्ञानात्मकपुरुषस्वरूपैक्यापत्तिसन्निश्चये निश्चितमेवैतत् किं विचारेण गतार्थत्वादिति।
___ अयं तस्य प्रवृत्तिपर्यायस्य विधेविधिः विधिविधिः स्थितिराचारः प्रवृत्तिर्मर्यादेति, यः पुनर्विधिः प्राक्तनः स न युज्यते, विधिना हि भवतीति भावः कर्ता सामान्यमिति सर्वतन्त्रसिद्धान्तेन व्यवस्थितेऽर्थे भेदाभेदनानाभावेषु दोषान्न भावो भवितुरभाव इति