________________
७२
द्वादशारनयचक्रे कार्यैकत्ववत् कारणैकत्वं सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत्कारणं सद्विलक्षणत्वादुदुम्बरपुष्पवत्, इतरो निर्वृत्तघटवत् । ननु घटसत्त्वं पटसत्त्वविलक्षणम्, न, असतो वैलक्षण्यात्, इतरेतरासत्त्वात् । अथैवमपि वैलक्षण्ये कारणे कार्यसत्त्वनिश्चयो न निवर्त्तते, अनेकात्मकञ्च तत्, न तइँकात्मकत्वात् कार्यं सत्, कारणवदिति प्रथमचक्रकम् । शेषं पूर्ववद्विपर्ययेणेत्यादि यदुक्तं तदपि, अथ न कारणसर्वत्ववत् कार्यसर्वत्वं सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत्कार्यं सद्विलक्षणत्वादुदुम्बरपुष्पवदितरो घटवत्, ननु घटसत्त्वं पटसत्त्वविलक्षणं, न, असतो वैलक्षण्यादितरेतरासत्त्वात्, एतद् द्वितीयं चक्रकम् । अतः सर्वात्मकत्वसतः कारणादन्यत् कार्यमेकात्मकत्वात् कुम्भादिवैकक्षणः । एकात्मकत्वासतश्च कार्यादन्यत् कारणं सर्वात्मकत्वात् क्षणादिव कुम्भ इति । तथाऽनुवृत्तिव्यावृत्त्यादि।
न, असिद्धत्वादसर्वत्वादिहेतूनाम्, अस्माकं हि सर्वमेवानुवृत्तिरेव कारणमेवोपादानमेव बुद्धिसिद्धमेवेति । यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डात् सत्त्वाभिमतादन्य इतीष्यते तद्वदेव दण्डादेरप्यसर्वत्वं सर्वस्मादन्यत्वाद्धटवत्, तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यसर्वत्वात् सर्वत्वाभाव इति सर्वत्वैकत्वभङ्गचतुष्टयाभावः, स्वोक्तविरोधादिवत् प्रमाणविशेषस्वरूपविरोधाश्च।
तत्र स्ववचनविरोधस्तावत् – यदि कार्यं घटवत् क्रियते तत् कथमसत् खपुष्पवत् कार्यश्च? मृदेव हि घटः क्रियते – घटतया व्यज्यते विद्यमान एव व्यक्तीभवति, स एव घटो दीपेनेव तथा च विशेषणविशेष्याप्रसिद्धिरपि कार्यमसदिति ।