________________
द्वितीयो विधिविध्यरः ।
तदसदेवेति, निर्वृत्तमपि तर्ह्यसत्, सामान्यविशेषवत्त्वात् कारणकाल कार्यवत्, कार्यवञ्चाभवदपि खपुष्पमसन्न स्यात् निः सामान्यनिर्विशेषत्वात्, सामान्यविशेषवत् ।
७१
कार्यासत्त्ववैलक्षण्याद्वा कारणवदसन्न स्यात्, कारणं वा खपुष्पवत् कार्यासत्त्ववैलक्षण्यादसत् स्यात् ।
अथ कार्योपादानादिमत्त्ववत् खपुष्पस्याप्युपादानादिमत्त्वं नेष्यते असच्च कार्यमिति निश्चितं तदा पूर्ववच्चक्रकद्वयप्रवर्त्तनमुभयासत्त्वे, अन्यतरासत्त्वे तु कार्यसमीप इत्यादि स एव ग्रन्थ उपादानादिमत्त्व विशेषणविशिष्टो योज्यः । अतः कार्यं सदुपादानादिमत्त्वात् कारणस्वात्मवत् वैधर्म्येणाकाशघटवदिति ।
·
ननु सत्त्वेऽपि कारणवत् प्रत्यक्षत्वं प्रसज्यते, न, अव्यक्तत्वात्, वितटीखातहस्तीव पूर्वं खननात् । भूगन्धवद्वाsप्रत्यक्षत्वं कार्यस्य, अत एव च प्रकरणचिन्तेति प्रकरणसमदोषोऽनेकान्तत्वात् ।
एवं तर्हि दर्शनादर्शनयोः प्रादुर्भावाप्रादुर्भावयोश्च समानः प्रकरणसमदोष इति चेन्न, जन्मप्रकाशविषयविशेषस्योक्तत्वात्, उपादानादिमत्त्वाविशेषाच्च त्वत्पक्षेण समान दोष इति । यदेतत् समानकरणं ततोऽन्यत् कार्यम्, तद्विकल्पासामर्थ्यात्, घटपटवत् । अत्रापि चतुर्षु विकल्पेषूभयसत्त्वमन्यतरसत्त्वञ्च स्यात् । तत्र यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे सर्वत्वैकत्वभेदो न स्यात् । एवन्तु कार्यैकत्ववत् कारणैकत्वमपि स्यात् । अथ न
I