________________
द्वादशारनयचक्रे अतः कार्य सत्, आविर्भावात्मकत्वात्, निवृत्तघटवत्, वैधर्येणाकाशघटवत् । असञ्च खपुष्पमनाविर्भावात्मकत्वादाकाशघटवत्, वैधपेण निर्वृत्तघटवदिति । यदि कार्यखपुष्पयोरसत्त्वं तुल्यं विशेषो वक्तव्यो नो चेदविशेषाद्वैलक्षण्यानुपपत्तिः, घटघटस्वात्मवत् । विशेषोन्नयनेऽपि तु विशेषस्य सदाश्रयत्वात्सत्त्वं घटकदिति भावाभावयोः सामान्यमेव न विशेष इति।
अथैवं तत्साम्यमनिच्छतः कार्यसत्त्वपरिहारेणायातमिदमन्यतरासत्त्वं कार्यमेवासदिति, कार्यशब्दसमीपे एवकारप्रयोगादसत्त्वं कार्य एव नान्यत्रापीति, ततश्च न खपुष्पमसदिति प्रसक्तम्।
तथा च खरविषाणविपरीतनिर्वृत्तघटादीनामसत्त्वतुल्यं कार्या -सत्त्वमिति नाममात्रेऽविसंवादोऽग्नेर्मङ्गलनामवत् ।
कार्यसत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधापत्तिः । अथ कार्यमसदेवेत्येवकारादसदनवधृतेः पूर्वो दोषः।
अथोच्येत त्वयाऽसत्त्वादेव तयोः कारणकाले विशेषासम्भवः, उभयेषामवस्तुत्वान्निरुपाख्यत्वाच्च यदेव कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति नावधारणदोषः, नापि पूर्वस्तुल्यत्वापत्तिदोषः असतो विशेषाभावादनेकविषयत्वात्तुल्यत्वस्य, अत्रोच्यते, एवमप्येकत्वाद्विशेषाभावः, यथैव ह्यनुपादानमबुद्धिसिद्धञ्च खपुष्पं निःसामान्यं निर्विशेषश्च सिद्धमेवं घटादेः कार्यस्य स्यात्।
अथ सामान्यविशेषोपादानबुद्धिसिद्धत्वसद्भावौ कार्यखपुष्पयोरिष्यते त्वया विशेषौ खपुष्पवदभवदपि अन्यथा भवदपि