________________
द्वितीयो विधिविध्यरः।
यदेतदसत्त्वं नाम त्वया कचिन्मन्यते, न्यायेन बाध्यत्वात्, ततोऽन्यत् कार्यम्, तदसमर्थविकल्पत्वात्, घटपटवत् ।
असद्रिकल्पासङ्गतत्वं कार्यस्यासिद्धम्, तन्न, प्रसिद्धमेव हि विकल्पासामर्थ्यमसत्कार्ययोरसतः कार्यस्य च, असत्कार्ययोर्विकल्पाश्चत्वारः खपुष्पमसत्कार्यमप्यसत्, खपुष्पं सत् कार्यमसत्, खपुष्मसत् कार्यं सत्, खपुष्पं सत् कार्यमपि सदित्येतेषु कार्यखपुष्पयोरुभयोरसत्त्वं कार्यासत्त्वमेवेत्येतद्विकल्पद्वयं स्यात् उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षाभ्युपगम एव सत्कार्यवाद इति वादाभावात् । ततश्च तयोर्यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेव कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यात्, असत्कार्यवत्, न चैतदृष्टमिष्टं वा।
अथ न कार्यप्रादुर्भाववत् खपुष्पप्रादुर्भाव इष्यते, असच्च कार्यमिति निश्चितम्, तद्वैलक्षण्यान तसत्, खपुष्पम्, सदेव, असद्विलक्षणत्वात्, घटवत्, इतर उदुम्बरपुष्पवत्।।
ननु घटासत्त्वं पटासत्त्वविलक्षणम्, न, सतो वैलक्षण्यात् । अथवा सदसद्विलक्षणत्वान तर्पसत् खपुष्पम्, घटवत्, इतर उदुम्बरपुष्पवत्।
अथैवमप्यसदेव खपुष्पमिति निश्चयो न निवर्तते, अप्रादुर्भावात्मकं च तदिति वैलक्षण्यमिष्यते, अर्थादापन्नं न तर्हि प्रादुर्भावात्मकत्वात् कार्यमसत् । निर्वृत्तघटवत्, असत्त्वे आयत्यां न प्रादुर्भवेत् कार्यं खपुष्पवत्, शेषं पूर्ववदेव विपर्ययेण योज्यम्।