________________
६८
द्वादशारनयचक्रे
करोमि, श्रूयताम् । लौकिकजुहोत्यर्थानुष्ठानप्रवृत्तोपदेश एव त्वयं परमनुवादः स्यात् । स चानुपपन्ननियमार्थ उपदेशस्त्वदिष्टविरुद्धार्थः ।
इदं वा 'ग्निहोत्रं जुहुयाद्यदनये च प्रजापतये च सायं जुहोति, 'घृतेन जुहुयात्, 'शूर्पेण जुहोति तेन ह्यनं क्रियते' इत्येवमादिविध्यनुवादार्थवादवाक्यगतो जुहोतिः श्रूयमाणः प्राप्तिविहितेतिकर्त्तव्यतानतिरिक्तह्ह्वनक्रियानाममात्रार्थो विप्रकीर्णावयवकलापाकारा क्रियैव वाऽस्यार्थोऽसिद्धरूपो यथा घटयूपादि, तन्मात्रत्वात्तु तस्याः प्रकरणानुबन्धनात् हित्वा जुहोतिप्रयोगबाहुल्यं कृञ्प्रकृतिलिङ्कर्तृता च दर्शयितव्येति यदनये च प्रजापतये च सायं जुहोति तद्धृतादिना स्वर्गकामः कुर्यादिति । तत्प्रतिपादनार्थमभिमतवाक्यार्थताऽस्यैवं स्यात् ।
तद्वचनन्त्वप्रमाणनियमागममनुपदेशकञ्च विवेक्रपीति संभाव्यते, अप्रत्यवेक्षितार्थत्वात् पौर्वापर्यायोगाप्रतिसम्बद्धार्थत्वात्, घटितानुमतविध्वंसनाच्च उन्मत्तप्रलापवत् ।
एवं विचार्यमाणमिदं वाक्यं दोषेभ्यो न मुच्यते, अथवा नैवायं दोषो न च विचारयोग्योऽयमुद्राहः प्रत्यपेक्षाप्रामाण्ययोः निर्विषयत्वात्, त्वन्मतात्तन्न ज्ञानवद्वचनम् ।
यदपि च प्रसह्य परमाक्रम्य कारणेषु घृतादिष्वेवंविधेषु स्वर्गादिफलस्य खपुष्पवदसत्त्वमुच्यते तदपि चान्याय्यमेव