________________
द्वितीयो विधिविध्यरः।
हवनाच्च भावनमेवमनवगमितमेवाभिप्रेतस्य स्यात् ।
प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्य स्वर्गकामकर्मत्वाभिधाना -दवगमितकामानुरूपकर्मण उक्तत्वादेव तद्विधक्रियाविशेषगतेः क्रियाप्राप्यत्वाच्च कामस्य अलकावगमितकामरटनवत् कुर्यादित्यर्थात्
आपनो विध्यर्थ इति जुहुयादित्यर्थापनार्थोऽनुवाद इतीयं व्याख्यान्याय्या, व्यक्तार्थोपपत्तित्वात्, आदिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति चेत्, तन्न, अर्थापत्तेः पौनरुक्त्यादनुवादत्वासम्भवात्।
जघन्यतरा चेयं व्याख्या, साक्षाच्छुतविधेर्जुहुयात्त्यागेन चार्था -पन्नार्थाश्रुतानूदितजुहुयाद्विकल्पनात् स एव पुरुषप्रमाणकत्वदोषः शब्दाप्रामाण्यदोषश्च।
विधीयमानवाक्यार्थविषयानुवदनाच्च वाक्यभेदस्य पुनरुक्तस्य चाङ्गीकरणात्।
अनुवादस्य च प्राप्तविशेषणपरार्थविषयार्थत्वादनुवादत्वाभावः।
___ यत्पश्रादुच्यते कर्त्तव्यताप्रसिद्ध्यर्थमितिकर्तव्यतावाक्यं घृतेन जुहुयादिति, तस्य विधिविषयविप्रकृष्टीभूतत्वान कर्त्तव्यताविषयत्वम्।
इतिघटितविघटितमितिकर्तव्यतैव कर्त्तव्यतेति । ततश्च प्रतिसमाधेये विरुद्धतरदोषापादनं विधिविषयविप्रकृष्टीभूतार्थत्वादिति गण्डस्योपरि स्फोट आपादितः, ततोऽहमेव ते बुद्धिसंविभागं