________________
द्वितीयो विधिविध्यरः।
ज्ञाताज्ञातविशेषाञ्चैवं पदवाक्यशब्दानां घटज्ञानवत् साधुतासाधुते न घटेते, अर्थान्तराभावात् ज्ञाताज्ञातालम्बनविध्यनुवादार्थयुगपद्विवक्षावृत्तिवाक्यभेददोषपरिकल्पनापरिश्लथता, व्यथैवं साधुत्वासाधुत्वाभ्याम्, एकार्थत्वाद्धटकुटवत्।
इदञ्चाज्ञातमपि सत्त्वया तत्त्वमेवैवं विवेक्तारं प्रति प्रदर्शितं घुणाक्षरवत्।
___ अथोच्येत कारणमात्रकार्यदर्शनमिह सदपि निर्मूलापविद्धक्रियावाक्यप्रबन्धं कार्यासत्त्वमेवात्र विवक्ष्यते, अलब्धवृत्तित्वात्, खपुष्पवत्, अतोऽसत्कार्यमागृह्य स्वर्गादिप्राप्त्यर्थं क्रियाऽऽश्रीयतेऽग्नि -होत्रं कुर्यादिति । तद्विविधमनितिकर्तव्यतात्मकमितिकर्तव्यतात्मकञ्च तत्रानितिकर्त्तव्यतात्मकं च कार्यं घटादि यूपादि लोके वेदे च दृष्टमितिकर्तव्यतात्मकं न भवति तदुपरमेऽपि पृथगुपलब्धेः, इतिकर्त्तव्यतात्मकन्तु प्राप्तिसंवादि यथा सेवादि, तत्कार्यं न कारणमात्रं घटादियूपादिवत् । घटं कुर्यादिति प्रतिपादितासत्कार्यार्थवाक्यवत् कुर्याच्छब्दप्रतिपादितमिदमपि वाक्यं स्फुटतरासत्कार्यार्थम्, आदौ मध्येऽन्ते च कर्त्तव्यताभ्युपगमात् । अतोऽसत्कार्यवादस्यैवाभ्युपगतत्वाद्यदुच्यते त्वया दोषजातं तत् त्वद्वचनच्छलादिति।
एतदपि नोपपद्यते विधिविधिनयदर्शनोपपादयिष्यमाणकारणमात्रत्ववादात् । अभ्युपेत्यापि नैवास्य वाक्यता इतिकर्त्तव्यतावाक्यासिद्धौ तदसिद्धेः, तदवाक्यत्वे तदलप्रतिष्ठाप्यकर्त्तव्यतावाक्यमप्यवाक्यम्, जुहुयादित्यस्योक्तवदेवेतिकर्त्तव्यतावाक्यप्रत्ययापि न कर्त्तव्यतागतिः।