________________
६४
द्वादशारनयचक्रे इतिकर्तव्यताकर्तव्यताभ्युपगमात्तु पूर्वोत्तरावस्थानुबन्धात् कारणमेव कार्यम्, सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवत् यज्ञोपवीतसूत्रतन्तुपटत्ववद्वा संस्थानमात्रभिन्नस्य कारणस्यैव कार्यत्वमित्यभ्युपगम आपद्यत इति कार्यस्य त्यागः कुर्यादिति, स्वशब्दार्थापत्तिविषयविपरीतार्थत्वाद्विवक्षाभेदव्याघातः स च त्वया तत्त्वानपेक्षणदोषान्नेक्ष्यते।
एवं कारणात्मकत्वेऽभ्युपगतेऽपि यदीतिकर्त्तव्यता जनयतीतीष्यते ततो न सा कर्त्तव्यता काचिदस्तीति सा तज्जन्या न भवति, जनकत्वात् कारणत्वात् पूर्वत्वाद्विधायकत्वान्मातृवद्वचनवत्।
अथ जन्या सा, एवं तर्हि न जनिका न कारणे जन्यत्वादित्यजनकत्वात् कार्यत्वात् अपूर्वत्वात् विधेयत्वात् पुत्रादिवत्।
कारणमात्रत्वे सति कर्त्तव्यता प्रतीतिकर्तव्यतां परिसमाप्ता वा स्यादपरिसमाप्ता वा? तत्र यदि प्रत्येकमितिकर्तव्यतासु कर्त्तव्यता परिसमाप्ता ततः प्रतीतिकर्त्तव्यतासमाप्तेरितिकर्त्तव्यतान्तरानारम्भः, अनारम्भ एव वा तस्या अपि, कारणमात्रत्वात् । कर्त्तव्यतायाः प्रत्येकमसमाप्तौ च कारणाभावादतथा तावत् समुदायस्यापि च तन्मात्रत्वादुक्तवत्।
अभिमतविध्यनुवादवैपरीत्यदोषप्रसङ्गश्च, अनुवादकता च घृतादेः कारणमात्रवृत्तित्वाद्धवनवत्, घृतादिवद्धवनस्य वा विधायकता, एवञ्च न विधिर्नानुवादो वाऽस्ति, अतोऽवाक्यत्वम्, अनुवादविधायकत्वाद्विच्छिन्नार्थपदवत्, काकरुतवद्वा।