________________
द्वितीयो विधिविध्यरः।
६३
विधीयते तदन्वनुष्ठात्रापि तदुपदिष्टभेदसाधननिष्पाद्यत्वेनाभ्युपगम्य यथाभागकारकविन्यासात्मकेतिकर्त्तव्यतयाऽनुष्ठीयतेऽतोऽसौ प्राङ्नासीदित्याश्रिता, कार्यत्वेन परिगृहीतत्वात् कुर्याज्जुहुयादित्यादिवचनाद्विशेषैकान्तवस्तुवत्, एवमनेन तर्केणासत्कार्यवादोऽभ्युपगतस्त्वया, स चाप्रतिपूर्णः, असिद्धहेतुकत्वात् प्रतितर्केण बाध्यत्वाच्च।
___ नतु तत्त्वमेव वस्तुनोऽसत्कार्यत्वं व्यङ्गयत्वात्, व्यङ्गया हि सा क्रिया, न कार्या, अविवक्षितप्रत्येकसमुदितघृतादिद्रव्यधर्मत्वेनाभिव्यक्तेः पिण्डकालघटवत्, शुक्रशोणितावस्थायामिव वा देवदत्तस्तदवस्थाविशेषान्तरत्वे सत्युत्तरकालमुपलभ्यत्वात्, कार्यत्वादेव वा प्रकाश्यघटवदभिव्यञ्जनस्यैव कार्यत्वाख्यत्वात्, एवं तर्हि सत्त्वरजस्तमसां साम्यवैषम्यवद्व्यक्ताव्यक्तता एककारणत्वस्य बाधिका स्यादिति चेन, तत्त्व एवान्यथाभूते व्यक्तता नाम काचिदस्ति घटस्वात्मवत्।
घटस्वात्मवदित्ययं दृष्टान्त उपपद्यते, मृत्पिण्डकालघटवदिति तु न युज्यते तत्त्व एवान्यथाभावात्, पिण्डानन्तरं हि शिवको भवति न घटो न स्तूपकछत्रकस्थालककोशककुशूलका इति, अत्रोच्यते तुल्यप्रत्यासत्तित्वात्, मृत्पिण्डघटवत् पिण्डावस्थायामेव घटस्य भावात्।
अत एव कारणमात्रमसौ, तदात्मत्वात्तनिवृत्तत्वाच्च, घटमृत्त्व -वदेवश्चाप्रतिपूर्णस्तर्कः, स्वयमेव त्वया परित्यक्तत्वाच्च, एकान्तवादस्वाभाव्यात्, पूर्वोक्तमृषात्ववादवत्।