________________
द्वितीयो विधिविध्यरः।
शैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यात् तत्सिद्धिरयुक्तैव।
ननु सेवादिवत् क्रियामात्रत्वादितिकर्तव्यताभ्यः प्रतिपत्तिस्तन, भजनार्थसेवायाः ज्ञातत्वे तासां सेवार्थत्वात् अज्ञातत्वे तदर्थाप्रतिपादनात्, न त्वेवमग्निहोत्रावयवक्रियाः ज्ञाताः अवश्यश्चैत देवमितरथा प्रतिक्रियं पृथक्त्वापत्तेः।
नात्रापि हवनादीनां दानाद्यर्थत्वाद्वैषम्यम्, उत्तरक्रियामात्रत्वाच्चैतदपि न, लोकविदितदानाद्यर्थानुबद्धेतिकर्त्तव्यतामात्रार्थतापत्तेः, न चैतदिष्टं दृष्टं वा, अग्निसम्प्रदानत्वविरोधात्।
___ यदि चानय इति सम्प्रदानविशेषो लौकिक एव, ननु लौकिक एव गृह्यमाण इत्याद्युक्तदर्शनवदनर्थकः । नैवं सा तदाभत्वात्, अदानात्मकत्वात्, यथा बालरमणकादिक्रियायामन्योऽन्यदानभोजनादिक्रियाः । प्रधानादिवादसाधुता वा, प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात्, वेदवादासाधुता वा तेषां स्यात्।
अथाऽग्निहोत्रमित्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्येत तथा सत्यपूर्वाभिधाने कोऽर्थः कृतः स्यात्?
___ यः स्वर्गकामः स हवनेनेतिकर्तव्यताविशेषेण स्वर्ग भावयेदिति कृतः स्यात्, न, विद्यापर्यायतत्त्वज्ञानोत्पादनार्थत्वादविद्यानिराकरणार्थत्वाच शब्दप्रयोगः, तेन किमूनीकृतं? यावदेवोक्तं भवति यः स्वर्गं कामयते स जुहुयादिति तावदुक्तं भवत्यपूर्व