SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे त्वदभिप्रायवदग्निहोत्रं हवनं कुर्यादित्येतस्मिन्नर्थे हवनानुवादेन विशिष्टेऽग्निहोत्रे तस्य कर्मणः परपरिकल्पिताऽऽत्मादिवदलौकिकत्वादप्रसिद्धस्वरूपत्वात् करणासिद्धिः । अथोच्येत विध्यन्तरविधानशैल्या तत्सिद्धिः, यथा 'यूपं छिनत्ती'त्यादि पूर्व विधाय पश्चात् पालाशमष्टासमित्यादीनीति, एतदपि न, वैषम्यात्, न हि सछेदनक्रियाकाल एव यूपः, किं तर्हि? संस्कृतः सन् भविष्यति यूपः इत्थंस्वरूपस्य तस्य काष्ठस्य तदा यूपत्वं नामतो युक्तम्, न पुनरग्निहोत्रस्य तदैव सतः संस्कारनिरपेक्षस्य। ननु वत्सो दत्तक इत्यादि यावत् स्थूणेन्द्र उच्यते तादर्थ्यात्, एवं यूपार्थं दारु यूपस्तत्कालत्वादत्रोच्यते, छेदनस्य संस्कारता न विहिता स्यात्, यूपस्य निर्वृत्तत्वात् तस्यामसत्याञ्चछिदिरविवक्षितार्थः स्यात् तस्माद्यावदेव यूपं स्वीकरोति तावदेव छिनत्तीत्युक्तं भवति, छिनत्तेः संस्कारार्थरहितत्वात्, अदृष्टार्थो वा। ___अत इयं या तत्र भावना यूपं छिनत्ति छेदनेन यूपं स्वीकरोतीति तत्र न छेदनमेवावर्धायते अष्टाम्रकरणादीनामसंस्कारत्वप्रसङ्गात्, किन्तु स्वीकरोत्येवेत्यवधार्यते सेह हवनविधिवाक्येन न शक्याऽऽश्रयितुम्, अवधारणासम्भवाद्धवनेनाग्निहोत्रं करोतीति हवनाद्यन्यस्याग्निहोत्रस्याभावात्। तस्याग्निहोत्रस्याप्रसिद्धस्य क्रियाकलापाभिमतार्थनामधेयमात्रत्वात् प्रसिद्धयूपद्रव्यछेदनादिवैषम्यम्।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy